SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०८ समवायाङ्गसूत्रम्-८२/१६१ प्रविश्य चारंचरति, तद्यथा-निष्कामंश्चजम्बूद्वीपात् प्रविशंश्चजम्बूद्वीपएवेति, अयमत्रभावार्थ:किल चतुरशीत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वाभ्यन्तरे सर्वबाह्ये सकृदेव सङ्क्रमति शेषाणि तु द्वौ वाराविति, इह च द्वयशीतिविवक्षयैवेदं द्वयशीतिस्थानकेऽधीतमिति भावनीय, यद्यपि जम्बूद्वीपेपञ्चषष्टिरेव मण्डलानां भवति तथापिजम्बूद्वीपादिकसूर्यचारविषयत्वाच्छेषाण्यपि जम्बूद्वीपेन विशेषितानीति । _ 'समणे' इत्यादि आषाढस्य शुक्लपक्षषष्ठया आरभ्य वशीत्यां रात्रिन्दिवेष्वतिक्रान्तेषु त्र्यशीतितमेवर्तमानेअश्वयुजः कृष्णत्रयोदशश्यामित्यर्थः,गर्भात-गर्भाशयाद्देवानंदाब्राह्मणीकुक्षित इत्यर्थः गर्भ-त्रिशलाभिधानक्षत्रियाकुक्षिं संहृतो-नीतो देवेन्द्रवचनकारिणा हरिणेगमेष्यभिधानदेवेनेति, इदंच सूत्रं यशीतिरात्रिन्दिवान्यधिकृत्य द्यशीतिस्थानकेऽधीयते त्र्यशीतितमंरात्रिन्दिवमाश्रित्य तुञ्चशीतितमस्थानके इति । महाहिमवंतस्से'त्यादि महाहिमवतोद्वितीयवर्षधरपर्वतस्य योजनशतद्वयोच्छ्रितस्य उवरिल्लाओ'त्ति उपरिमाच्चरमान्तात्सौगन्धिककाण्डस्याधस्तनश्चरमान्तो यशीतिर्योजनशतानि, कथं ? रत्नप्रभापृथिव्यां हि त्रीणि काण्डानि-खरकाण्डंपङ्ककाण्डमबहुलकाण्डं चेति, तत्र प्रथमं काण्डं षोडशविधं, तद्यथा-रत्नकाण्डं १ वज्रकाण्डं २ एवं वैडूर्य ३ लोहिताक्ष४ मसारगल्ल ५ हंसगर्भ६पुलक७ सौगन्धिक ८ ज्योतीरस ९ अञ्जन १० अञ्जनपुलक ११ रजत १२ जातरूप १३ अङ्क १४ स्फटिक १५ रिष्ठकाण्डं चेति १६, एतानि च प्रत्येक सहस्रप्रमाणानि ततश्च सौगन्धिककाण्डस्याष्टमत्वादशीतिशतानि द्वे च शते महाहिमवदुच्छ्रय इत्येवं यशीतिशतानि इति, एवं रुक्मिणोऽपि पञ्चमवर्षधरस्य वाच्यं, महाहिमवत्समानोच्छ्रयत्वात्तस्येति समवायः-८२ समाप्तः (समवायः-८३) मू. (१६२) समणे भगवं महावीरे बासीइराइंदिएहिं वीइकतेहिं तेयासीइमेराइंदिए वट्टमाणे गब्भाओ गन्भं साहरिए, सीयलस्स णं अरहओ तेसीई गणा तेसीई गणहरा होत्था। थेरे णं मंडियपुत्ते तेसीइंवासाइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे । उसभेणं अरहा कोसलिए तेसीइं पुव्वसयसहस्साइंअगारमज्झे वसित्ता मुंडे भवित्ताणं जाव पव्वइए। भरहे णं राया चाउरंतचक्कवट्टी तेसीइं पुव्वसयसहस्साई अगारमझे वसित्ता जिणे जाए केवली सब्वन्नू सव्वभावदरिसी। वृ. अथव्यशीतितमस्थानके किमपिलिख्यते-इह शीतलजिनस्यत्र्यशीतिर्गणाःत्र्यशीतिगणधरा उक्ता आवश्यके त्वेकाशीतीरिति मतान्तरमिदमिति। तथा स्थविरो मण्डितपुत्रो-महावीरस्य षष्ठो गणधरः तस्य च त्र्यशीतिवर्षाणि सर्वायुः, कथं ?, त्रिपञ्चाशद्गृहस्थपर्याय चतुर्दश छद्मस्थपर्याये षोडश केवलित्वे इत्येवं त्र्यशीतिरिति। तथा 'कोसलिए'त्ति कोशलदेशेभवः कौशलिकः 'तेसीइंतिविंशति पूर्वलक्षाणि कुमारत्वे त्रिषष्टि राज्ये इत्येवं त्र्यशीति। तथा भरतश्चक्रवर्ती सप्तसप्तति पूर्वलक्षाणि कुमारत्वे षट् चक्रवर्त्तित्वे इत्येवं त्र्यशीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy