SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ समवायः - ७४ १०३ सीतोदाया महानद्याः पर्वतस्योपरि चतुःसप्ततिशतान्येकविंशत्यधिकानि कला चैकेत्येवं प्रवाहो भवति 'वइरामयाए जिब्भियाए' त्ति वज्रमय्या जिह्विकया प्रणालस्थमकरमुखजिह्निकया चतुर्योजनदीर्घया पञ्चाशद्योज- नविष्वाभया 'वइरतले कुण्डे' त्ति निषधपर्वतस्याधोवर्तिनि वज्रभूमिके अशीत्यधिकचतुर्योजन- शतायामविष्कम्भे दशयोजनावगाहे सीतोदादेवीभवनाध्यासितमस्तकेन तद्दीपेनालङ्कृतमध्यभागे सीतोदाप्रपातहदे 'महय'त्ति महाप्रमाणे यत्पुनः 'दुहओ'त्ति क्वचित् दृश्यते तदपपाठ इति मन्यते 'घडमुहपवत्तिएणं' ति घटमुखेनेव-कलशवदनेनेव प्रवर्त्तितः - प्रेरितो घटमुखप्रवर्त्तितस्तेन मुक्ता- वलीनां - मुक्ताफलशरीराणां सम्बन्धी हारस्तस्य यत्संस्थानं तेन संस्थितो यस्तेन प्रपातः पर्वतात्यपत- जलसमूहस्तेन महाशब्देन महाध्वनिना प्रपतति । एवं सीतापि, नवरं नीलवद्वर्षधराद्दक्षिणाभिमुखी प्रपततीति । ‘चउत्थवज्ञ्जे’' त्यादि तत्र प्रथमायां त्रिंशत् द्वितीयायां पञ्चविंशति तृतीयायां पञ्चदश पञ्चम्यां त्रीणि लक्षाणि षष्ठयां पञ्चोनं लक्षं सप्तम्यां पञ्चेत्येतानि मीलितानि चतुःसप्ततिर्भवति । समवायः ७४ समाप्तः समवाय:- ७५ भू. (१५३) सुविहिस्स णं पुप्फदंतस्स अरहओ पन्नत्तरि जिणसया होत्था । सीतलेणं अरहा पन्नत्तरि पुव्वसहस्साइं अगारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वइए संती णं अरहा पत्रत्तरिवाससहस्साइं अगारवासमझे वसित्ता मुंडे भवित्ता अगाराओ अनगारियं पव्वइए। वृ. अथ पञ्चसप्ततिस्थानके किमपि लिख्यते 'सुविधेः' नवमतीर्थकरस्य नामान्तरतः पुष्पदन्तस्येति, तथा शीतलस्य पञ्चसप्तति पूर्वसहस्राणि गृहवासे, कथं ?, पञ्चविंशति कुमारत्व पञ्चाशच्च राज्य इति, तथा शान्ति पञ्चसप्ततिवर्ष सहस्राणि गृहवासमध्युष्य प्रव्रजितः कथं ?, पञ्चविंशति कुमारत्वे पञ्चविंशति माण्डलिकत्वे पञ्चविंशतिश्चक्रवर्त्तित्वे इति । समवायः - ७५ समाप्तः समवाय:-७६ मू. (१५४) छावत्तरिं विज़ुकुमारावाससयसहस्सा प० । वृ. अथ षटसप्ततिस्थानके लिख्यते किञ्चित-तत्र विद्युत्कुमाराणां भवनावासलक्षाणि दक्षिणस्यां चत्वारिंशदुत्तरस्यां तु षट्त्रिंशदिति षट्सप्ततिरिति । पू. (१५५) एवं दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं । छण्हंपि जुगलयाणं बावत्तरि सयसहस्साइं ॥ वृ. 'एव' मिति इदमेव भवनमानं शेषाणां द्वीपकुमारादिभवनपतिनिकायानां, इहार्थे गाथा 'दीवे' त्यादि 'युगलाना' मिति- दक्षिणोत्तरनिकायभेदेन युगलं, निकाये निकाये भवतीति । समवायः-७६ समाप्तः समवाय:-७७ मू. (१५६) भरहे राया चाउरंतचक्कवट्टी सत्तहत्तरं पुव्वसयसहस्साइं कुमारवासमज्झे For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy