SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १०० समवायाङ्गसूत्रम्- ७१ / १४९ वृ. अथैकसप्ततिस्थानके किञ्चित् लिख्यते- 'चउत्थस्से' त्यादि, इह भावार्थोऽयं युगे हि पञ्च संवत्सरा भवन्ति, तत्राद्यौ चन्द्रसंवत्सरौ तृतीयोऽभिवर्द्धितसंवत्सरश्चतुर्थश्चन्द्रसंवत्सर एव, तत्र च एकोनत्रिंशता दिनां द्वात्रिंशता च द्विषष्टिभागैर्दिनस्य चन्द्रमासो भवति, अयं च द्वादशगुणश्चन्द्रसंवत्सरो भवति, त्रयोदशगुणश्चायमेवाभिवर्द्धितो भवति, ततश्चन्द्रचन्द्राभिवर्द्धितलक्षणे संवत्सरत्रये दिनानां सहं द्विनवतिः षट् द्विषष्टिभागा भवन्ति १०९२ । तथा आदित्यसंवत्सरे दिनानां शतत्रयं षटषष्टिश्च भवन्ति, तत्रितये च सहमष्टनवत्यधिकं भवति । इह च किलचन्द्रयुगमादित्ययुगं चाषाढ्यामेकं पूर्यतेऽ परञ्च श्रावणकृष्णप्रतिपदि आरभ्यते, एवं चादित्ययुगसंवत्सरत्रयापेक्षया चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षटपञ्चाशता च दिनद्विषष्टिभागैरूनं भवतीतिकृत्वा आदित्ययुगसंवत्सरत्रयं श्रावणकृष्णपक्षस्य चन्द्रदिनषट्के साधिके पूर्यते युगसंवत्सरत्रयं त्वाषाढ्यां, ततश्च श्रावणकृष्णपक्षसप्तमदिनादारभ्य दक्षिणा यनेनादित्यश्चरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायामष्टादशोत्तरशततमदिन भूतायां कार्तिक्यां द्वादशोत्तरशततमे स्वकीयमण्डले चरति, ततश्चान्यान्येकसप्ततिर्मण्डलानि तावत्स्वेव दिनेषु मार्गशीर्षादीनां चतुर्णा हैमन्तमा सानां सम्बन्धिषु धरति, ततो द्विसप्ततितमे दिने माघमासे बहुलपक्ष त्रयोदशी लक्षणे सूर्य आवृत्तिं करोति, दक्षिणायनान्निवृत्त्योत्तरायणेन चरतीत्यर्थः, उक्ता च ज्योतिष्करण्डके पञ्चसु युगसंवत्सरेषूत्तरायणतिथयः क्रमेणैवं यदुत"बहुलस्स सत्तमीए १ सूरो सुद्धस्स तो चउत्थीए २ । बहुलरस य पाडिव ३ बहुलस्स य तेरीसिदिवसे ४ ॥ सुद्धस्स य दसमीए ५ पवत्तए पंचमी उ आउट्टी । एआ आउट्टीओ सव्वाओ माघमासंमि ॥ -दक्षिणायनदिनानि चैवं । 119 11 ॥२॥ ॥ १ ॥ ॥२॥ "पढमा बहुलपडिचए १ बीया बहुलस्स तेरीस दिवसे २ । सुद्धस्स य दसमीए ३ बहुलस्स य सत्तमीए ४ उ ॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी । एया आउट्टीओ सव्वाओ सावणे मासे ॥ 'विरियपुव्वस्स' त्ति तृतीयपूर्वस्य 'पाहुड' त्ति प्राभृतमधिकारविशेषः । 'अजिए' इत्यादि, तस्य हि अष्टादश पूर्वलक्षाणि कुमारत्वं त्रिपञ्चाशच्चैकपूर्वाङ्गाधिका राज्यमित्येकसप्ततिरिह च पूर्वाङ्गमधिकमल्पत्वान्न विवक्षितमिति ५, सगरो द्वितीयश्चक्रवर्ती अजितस्वामिकालीनः । समवायः - ७१ समाप्तः समवाय:-७२ भू. (१५०) बावत्तरिं सुवन्नकुमारावाससयसहस्सा प० । लवणस्स समुद्दस्स बावत्तरिं नागसाहस्सीओ बाहिरियं वेलं धारंति । समणे भगवं महावीरे बाक्त्तरिं वासाइं सव्वाउयं पालइत्ता सिद्धि बुद्धे जावप्पहीणे । धेरे णं अवलमाया बावत्तरिं वासाइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy