SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ समवायः - ६७ अपनीते यच्छेषं तदर्शीकृतं सद्भवतीति, आयामेन-दैध्येर्णेति। 'मंदरस्से'त्यादि, मेरोः पूर्वान्ताज्जम्बूद्वीपोऽपरस्यां दिशिजगतिवाांतपर्यवसानः पञ्चपञ्चाशयोजनसहस्राणि तावदस्ति, ततःपरंद्वादशयोजनसहस्राण्यतिक्रम्य लवणसमुद्रमध्ये गौतमद्वीपाभिधानो द्वीपोऽस्ति तमधिकृत्य सूत्रार्थ संभवति, पञ्चपञ्चाशतो द्वादशानां च सप्तषष्टित्वभावात्, यद्यपिसूत्रपुस्तकेषुगौतमशब्दोनदृश्यतेतथाप्यसौ श्यः,जीवाभिगमादिषुलवणसमुद्रेगौतमचन्द्रविद्वीपान् विनाद्वीपान्तरस्याश्रूयमाणत्वादिति । 'सव्वेसिपिण'मित्यादि, सर्वेषामपिणमित्यलङ्कारे नक्षत्राणां सीमाविष्कम्भः-पूर्वापरतश्चन्द्रस्य नक्षत्रमुक्तिक्षेत्रविस्तारः नक्षत्रेणाहोरात्रभोग्यक्षेत्रस्य सप्तषष्टया भागैर्भाजितो-विभक्तः समांशः-समच्छेदः प्रज्ञप्तः, भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदना भवति, भागान्तरेणनभक्तुं शक्यतेइत्यर्थः, तथाहि-नक्षत्रेणाहोरात्रगम्यस्य क्षेत्रस्य सप्तषष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिनक्षत्रस्य क्षेत्रतः सीमाविष्कम्भो भवति, एतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यत इत्यर्थः,तथा तस्यामेवैकविंशतौ त्रिंशन्महूर्तत्वादहोरात्रस्य त्रिंशता गुणितायां ६३० सप्तषष्टया हृतभागायां यल्लब्धं तत्कालसीमा भवति, चन्द्रेण सह तस्य योगकाल इत्यर्थः, सा च नव मुहूर्ताः सप्तविंशतिश्च सप्तषष्टिभागाः९२१. आह च॥१॥ "अभिइस्स चंदजोगो सत्तहिँ खण्डिए अहोरत्ते। भागाओ एक्कवीसं स होंति अहिगा नव मुहुत्ता ।। इति क्षेत्रतः कालतस्तथा शतभिषग्भरण्याश्लेिषास्वातिज्येष्ठानांत्रयशिंत्सप्तषष्टिभागास्तद्भागार्द्धच क्षेत्रसीमाविष्कम्भो भवति, तस्यामेव सार्द्धत्रयस्त्रिंशतित्रिंशता गुणितायां १००५ सप्तषष्टया हतभागायां यल्लब्धं तदेषां कालसीमा, तच्च पञ्चदश मुहूर्ताः, आह च॥१॥ “सयभिसया भरणीओ अद्दा असेस, साइजेट्ठा य। एए छन्नक्खत्ता पनरसमहत्तसंजोगा।। इति तथोत्तरात्रयः पुनर्वसुरोहिणीविशाखानां सप्तषष्टिभागानां शतं तद्भागार्द्ध च क्षेत्रसीमाविष्कम्भः भवति, तथा तस्मिन्नेव त्रिंशद्गुणिते ३०१५ तथैव हृतभगे यल्लब्धं तदेषां कालसीमा भवति, सा च पञ्चचत्वारिंशन्मुहूर्ता इति, आह च - ॥१॥ "तिन्नेव उत्तराई पुनव्वसूरोहिणी विसाहाय। एए छत्रक्खत्ता, पणयालमुहुत्तसंजोगा। इति शेषाणां पञ्चदशानां नक्षत्राणां सप्तषष्टिरेव सप्तष्टिभागानां क्षेत्रसीमाविष्कम्भो भवति, तस्यांच तथैव गुणितायां २०१० हतभागायांच यल्लब्धतत्कालसीमा, तच्च त्रिंशन्मुहूर्ताः, आह॥१॥ “अवशेषा नक्खत्ता पन्नरसवि हुंति तीसइमुहुत्ता। चंदस्स तेहिं जोगो समासओ एस वक्खामि ॥ एवं चैकस्य षण्णां२ पञ्चदशानां चेत्येवमष्टाविंशतेनक्षत्राणामष्टादश शतानि त्रिंशदधिकानि सप्तषष्टिभागानामेतदेव द्विगुणंषटपञ्चाशतो नक्षत्राणां भवति, तच्च सहस्रत्रयंषट्शतानिषष्टयधिकानि समवायः-६७ समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy