SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ स्थानं -१०, ५६७ वृ.प्रतिमाभ्यासः संसारक्षयार्थं संसारिभिः क्रियतइति संसारिणो जीवान्जीवाधिकारात् सर्वजीवांश्च ‘दसे'त्यादिना सूत्रत्रयेणाह, तच्च सुगम, नवरं प्रथमः समयो येषामेकेन्द्रियत्वस्य ते प्रथमसमयास्तेच ते एकेन्द्रियाश्चेति विग्रहः, विपरीतास्तितरे, एवं द्वित्रिचतुःपञ्चेन्द्रिया वाच्याः, आहच-एवं जावे'त्यादि, अणिदिय'त्ति अनिन्द्रियाः सिद्धाः अपर्याप्ताः उपयोगतः केवलिनश्चेति संसारिपर्यायविशेषप्रतिपादनायैवाहमू. (९९५) वाससताउस्स णं पुरिसस्स दस दसाओ पं० (तं०) वृ. 'वासे'त्यादि, वर्षशतमायुर्यत्र काले मनुष्याणांसवर्षशतायुष्कः कालस्तत्र यः पुरुषः सोऽप्युपचाराद्वर्षशतायुष्कः, मुख्यवृत्त्यावर्षशतायुषिपुरुषे गृह्यमाणेपूर्वकोट्यायुष्कपुरुषकाले वर्षशतायुः पुरुषस्य कस्यचित्कुमारत्वेऽपि बालादिदशादशकसमाप्तिः स्यात् न चैवं तत उपचार एव युक्त इति। मू. (९९६) बाला १ किड्डा २ य मंदा ३ य, बला ४ पन्ना ५ य हायणी ६ । पवंचा ७ पदभारा ८ य, मुंमुही ९ सावणी १० तधा ।।। वृ. 'दशे'ति संख्या, 'दसाउ'त्ति वर्षदशकप्रमाणाः कालकृता अवस्थाः इह च वर्षशतायुर्ग्रहणं विशिष्टतरदशस्थानकानुरोधात् विशिष्टतरत्वंच दशस्थानकस्यैवं वर्षदशकप्रमाणा दशा दशेति, अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा वा स्युरिति भावः, तत्र बालस्येयमवस्था धर्मधर्मिणोरभेदाबाला, स्वरूपं चास्याः॥१॥ “जायमेत्तस्स जंतुस्स, जा सा पढभिया दसा । . नतत्त सुहदुक्खाई, बहुंजाणंति बालया ।। इति, -तथा क्रीडाप्रधाना दशा क्रीडा, उक्तंच॥१॥ “बिइयं च दसंपत्तो, नाणाकीडाहिं कीडइ। न तत्थ कामभोगेहिं, तिव्वा उप्पज्जए मई।" तथा मन्दो-विशिष्टबलबुद्धिकार्योपदर्शनासमर्थोभोगानुभूतावेवच समर्थोयस्यामवस्थायां सा मन्दा, उक्तंच॥१॥ “तइयं च दसंपत्तो, आनुपुब्बीए जो नरो। समत्थो भुंजिउं भोए, जइ से अस्थि घरे धुवा ।।" इति, भोगोपार्जनेतु मन्द इति भावना, तथायस्यामवस्थायांपुरुषस्य बलं भवतिसा बलयोगाद् बला, उक्तंच॥१॥ "चउत्थी य बला नाम, जं नरो दसमस्सिओ। समत्थो बलं दरिसेउं, जइ होइ निरुवद्दवो ॥” इति, तथा प्रज्ञाबुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिवृद्धिविषया वा तद्योगाद्दशापि प्रज्ञा प्रकर्षेण जानातीति वा प्रज्ञा दशा तस्या एव कर्तृत्वविवक्षयेति, उक्तं च॥१॥ "पंचमिंच दसं पत्तो, आनुपुव्वीए जो नरो। इच्छियत्थं विचिंतेइ, कुडुंब चाभिकंखइ ।।" इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy