SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ५५४ स्थानाङ्ग सूत्रम् १०-९६८ ___'नन्दिसेने यत्तिमथुरायां श्रीदामराजसुतोनंदिषेणो युवराजो विपाकश्रुतेच नन्दिवर्द्धनः श्रूयते, स चराजद्रोहव्यतिकरे राज्ञानगरचत्वरेतप्तस्य लोहस्य द्रवेणस्नानंतद्विधसिंहासनोपवेशनं क्षारतैलभृतकलशै राज्याभिषेकं च कारयित्वा कष्टमारेण परासुतां नीतो नरकमगमत्, स च जन्मान्तरे सिंहपुरनगरराजस्य सिंहरथाभिधानस्य दुर्योधननामा गुप्तिपालो बभूव अनेकविधयातनाभिर्जनं कदर्थयित्वामृतः नरकंगतवानित्येवमर्थषष्ठमिति६, सोरिय'त्ति शौरिकनगरे शौरकदत्तो नाम मत्स्यबन्धपुत्रः, सचमत्स्यमांसप्रियो गलविलग्नमत्स्यकण्टको महाकष्टमनुभूय मृत्वा नरकंगतः, सचजन्मान्तरेनन्दिपुरनगरराजस्य मित्राभिधानस्य श्रीकोनाममहानसिकोऽभूत् जीवघातरतिः मांसप्रियश्च, मृत्वा चासौ नरकं गतवानिति सप्तमं, इदं चाध्ययनं विपाकश्रुतेऽ. ष्टममधीतं ७, __ 'उदुम्बरे'त्ति पाडलीषण्डे नगरे सागरदत्तसार्थवाहसुतः उदुम्बरदत्तो नानाऽभूत्, सच षोडशभिर्रागैरेकदाभिभूतोमहाकष्टमनुभूय मृतः, सचजन्मान्तरे विजयपुरराजस्य कनकरथनाम्नो धन्वन्तरिनामा वैद्य आसीत् मांसप्रियो मांसोपदेष्टा चातिकृत्वा नरकं गतवानित्यष्टमं ८, _ 'सहसुद्दाहे'त्तिसहसा-अकस्मादुद्दाहः-प्रकृष्टोदाहः सहसोद्दाहः सहाणां वा लोकस्योद्दाहः सहोद्दाहः, 'आमलए'त्ति रश्रुतेर्लश्रुतिरित्यमरकः-सामस्त्येन मारिः, एवमर्थप्रतिबद्धंनवमं, तत्र किल सुप्रतिष्ठे नगरे सिंहसेनोराजा श्यामाभिधानदेव्यामनुरक्तस्तद्वचनादेवैकोनानि पञ्च शतानि देवीनां तां मिमारयिषूणि ज्ञात्वा कुपितः सन् तन्मातृणामेकोनपञ्चशतान्युपनिमन्य महत्यगारे आवासंदत्त्वा भक्तादिभिः संपूज्य विश्रब्धानि सदेवीकानिसपरिवाराणि सर्वतो द्वारबन्धपूर्वकमग्निप्रदानेन दग्धवान् ततोऽसौ राजा मृत्वा च षष्ठयां गत्वा रोहीतके नगरे दत्तसार्थवाहस्य दुहितादेवदत्ताभिधानऽभवत् साचपुष्पनन्दिना राज्ञा परिणीतासचमातुभक्तिपरतया तत्कृत्यानि कुर्वन्नासमास तयाच भोगविघ्नकारिणीतितन्मातुर्चलल्लोहदण्डस्यापानप्रक्षेपात्सहसा दाहेन वधो व्यधायि राज्ञा चासौ ऽवविधविडम्बनाभिर्विडम्ब्य विनाशितेति विपाकश्रुते देवदत्ताभिधानं नवममिति इति, ९,। तथा 'कुमारेलेच्छईइयत्तिकुमारा-राज्याःि ,अथवा कुमाराः-प्रथमवयस्थास्तान् ‘लेच्छई इय'त्ति लिप्सूंश्च-वणिज आश्रित्य दशममध्यनमितिशब्दश्च परिसमात्पौ भिन्नक्रमश्च, अयमत्र भावार्थःयदुत इन्द्रपुरेनगरेपृथिवीश्रीणामगणिकाऽभूत्, साचबहून राजकुमारवणिक्पुत्रादीन् मन्त्रचूर्णादिभिर्वशीकृत्योदारान् भोगान् भुक्तवती षष्ठयां च गत्वा वर्द्धमाननगरे धनदेवसार्थवाहदुहिता अजूरित्यभिधाना जाता सा च विजयराजपरिणीता योनिशूलेन कृच्छंजीवित्वा नरकं गतेति, अत एव विपाकश्रुते असू इति दशममध्ययनमुच्यत इति १०॥ मू. (९६९) उवासगदसाणं दस अल्झयणा पं० (२०)वृ. उपासकदशा विवृण्वन्नाह-'दसे'त्यादि,.।। मू. (९७०) आनंदे १ कामदेवे २ अ, गाहावति चूलणनपिता ३ । सुरादेवे ४ चुल्लसतते ५, गाहावति कुंडकोलिते ६ __ सद्दालपुत्ते ७ महासतते ८, नंदिणीपिया ९ सालतियपिता १०-३ । वृ.'आनन्दे'सार्धः श्लोकः, 'आनंदे'त्तिआनन्दो वाणिजग्रामाभिधाननगरवासी महर्द्धिको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy