________________
५५२
स्थानाङ्ग सूत्रम् १०/-१९६६
मू. (९६६) दस ठाणाइंछउमत्थे णं सव्वभावेण नजाणति नपासति, तं०-धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा न वा भविस्सति अयं सव्वदुक्खाणमंतं करेस्सति वा नवा करेस्सति, एताणि चेव उप्पन्ननाणदसणधरे [अरहा] जाव अयं सव्वदुक्खाणमंतं करेस्सति वा नवा करेस्सति।
वृ. 'दसे' त्यादि गतार्थं, नवरं छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि जानात्येव, ‘सव्वभावेणं'ति सर्वप्रकारेण स्पर्शरसगन्धरूपज्ञानेन घटमिवेत्यर्थः, धर्मास्तिकाययावत्करणादधम्मास्तितकायंआकाशास्तिकायंजीवमशरीरप्रतिबद्धपरमाणुपुद्गलं शब्दंगन्धमिति, अय'मित्यादि द्वयमधिकमिह, तत्रायमिति-प्रत्यक्षज्ञानसाक्षात्कृतो जिनः' केवली भविष्यति न वा भविष्यतीति नवमं, तथाऽयं सव्वे'त्यादि प्रकटं दशममिति।
एतान्येव छद्मस्थानवबोध्यानि सातिशयज्ञानादित्वाजिनो जानातीति, आह च'एयाई इत्यादि, यावत्करणात् 'जिणे अरहा केवली सव्वन्नू सब्वभावेण जाणइ पासइ, तंजहाधम्मस्थिकाय'मित्यादि, यावद्दशमं स्थानं, तचोक्तमेवेति । सर्वज्ञत्वादेव यान् जिनोऽतीन्द्रियार्थप्रदर्शकान् श्रुतविशेषान्प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह
मू. (९६७) दस दसाओ पं० त०-कम्मविवागदसाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववायदसाओआयारदसाओ पाहावागरणदसाओबंधदसाओदोगिद्धिदसाओदीहदसाओ संखेवितदसाओ। कम्मविवागदसाणं दस अज्झयणा पं० २०
वृ. 'दस दसे त्याघेकादश सूत्राणि, तत्र 'दसत्तिदशसङ्ख्या 'दसाउ'त्तिदशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तर स्त्रीलिङ्गं शास्त्रस्याभिधानमिति, कर्मणः-अशुभस्य विपाकःफलं कर्मविपाकःतप्रतिपादिका दशध्ययनात्मकत्वाद्दशाः कर्मविपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धः, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चासाविहाभिमतः, उत्तरत्र विवरिष्यमाणत्वादिति,
तथा साधून उपासते-सेवन्त इत्युपासकाः-श्रावकास्तद्गतक्रियाकलापप्रतिबद्धाः दशादशाध्ययनोपलक्षिताउपासकदशाःसप्तममङ्गमिति, तथा अन्तो-विनाशः सच कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतः ते च तीर्थकरादयस्तेषां दशाः अन्तकृशाः, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीतितत्सङ्ख्योपलक्षितत्वादन्तकृशा इत्यभिधानेनाष्टममङ्गमभिहितं, तथा उत्तरः-प्रधानोनास्योत्तरोविद्यतइत्यनुत्तरः उपपतनमुपपतोजन्मेत्यर्थः अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिध्यादिविमानपञ्चकोपपातिन इत्यर्थस्तद्वक्तव्यताप्रतिबद्धा,
दशा-दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः नवमममिति, तथा चरणमाचारो ज्ञानादिविषयः पञ्चधा आचारप्रतिपादनपरादशा-दशाध्ययनामिका आचारदशाः, दशाश्रुतस्कन्ध इतियारूढाः, तथा प्रश्नाश्च-पृच्छाः व्याकरणानिच-निर्वचनानिप्रश्नव्याकरणानितप्रतिपादिका दशाः-दशाध्ययनामिकाः प्रश्नव्याकरणदशाः दशममङ्गमिति, तथा बन्धदशाद्विगृद्धिदशादीर्घदशासङ्केपिकदशाश्चास्माकमप्रतीता इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org