SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ स्थानं - १०, - ५१९ शब्दपरिणामः शुभाशुभभेदाद् द्विधेति । - - अजीवपररिणामाधिकारात् पुद्गललक्षणाजीवपरिणाममन्तरिक्षलक्षणाजीवपरिणामोपाधिकमस्वाध्यायिकव्यपदेश्यं 'दसविहे 'त्यादिना सूत्रेणाह मू. (९०१) दसविधे अंतलिक्खिते असज्झाइए पं० तं०-उक्कावाते दिसिदाधे गजिते विजुते निग्घाते जूयते जक्खालित्ते घूमिता महिता रतउग्धाते । दसविहे ओरालिते असज्झातिते पं० तं०-अट्ठि मंसं सोणिते असुतिसामंते सुसाणसामंते चंदो वराते सूरोबराए पडणे राययुग्गहे उवसयस्स अंतो ओरालिए सरीरगे वृ. तत्र 'अंतलिक्खए 'त्ति अन्तरिक्षं आकाशं तत्र भवमान्तरीक्षकं स्वाध्यायो-वाचनादिः पञ्चविधो यथासम्भवं यस्मिन्नस्ति तत्स्वाध्यायिकं तदभावोऽस्वाध्यायिकं तत्रोल्का - आकाशजा तस्याः पातः उल्कापातः, तथा दिशो दिशि वा दाहो दिग्दाहः, इदमुक्तं भवति-एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवर्त्ती स दिग्दाह इति, गर्जितं - जीमूतध्वनिः, विद्युत्-तडित् निर्घातः- साभ्रे निरश्रेवा गगने व्यन्तरकृतो महागर्जितध्वनिः, 'जूयए' त्ति सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतस्तत् जुयगोत्ति भणितं, सन्ध्याप्रभाचन्द्रप्रभयोर्मिश्रत्वमिति भावः, तत्र चन्द्रप्रभाऽऽवृता सन्ध्या अपगच्छन्तो न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे वाऽज्ञायमाने कालवेला न जानन्त्यतस्तस्त्रीणि दिनानि प्रादोषिकं कालं न गृह्णन्ति ततः कालिकस्यास्वाध्यायः स्यादिति, उल्कादीनां चेदं स्वरूपं ॥१॥ “दिसिदाहो छिन्नमूलो उक्कसरेहा पयासजुत्ता वा । संझाछेयावरणो जुयओ सुक्के दिणे तिन्नि ।” जक्खालित्तं 'ति यक्षादीप्तमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति, धूमिका-महिकाभेदो वर्णतो धूमिका धूमाकारा धूम्रेत्यर्थः, महिका प्रतीता, एतच्च द्वयमपि कार्त्तिकादिषु गर्भमासेषु भवति, तच्च पतनानन्तरमेव सूक्ष्मत्वात्सर्वमप्कायभावितं करोतीति, 'रयउग्धा 'त्ति विश्वसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते । अस्वाध्यायाधिकारादेवेदमाह 'दसविहे ओरालिए' इत्यादि, औदारिकस्य मनुष्यतिर्यक्शरीरस्येदमौदारिकमस्वाध्यायिकं, तत्रास्थिमांशोणितानि प्रतीतानि, तत्र पञ्चेन्द्रियतिरश्चामस्वाध्यायिकं द्रव्यतोऽस्थिमांसशोणितानि ग्रन्थान्तरे चमप्यधीयते, यदाह - "सोणियं मंसं चम्मं अट्ठीवि य होति चत्तारि" इति, क्षेत्रतः षष्टिहस्ताभ्यन्तरे, कालतः सम्भवकालाद्यावत् तीया पौरुषी मार्जारादिभिर्मूषिकादिव्यापादनेऽहोरात्रं चेति, भावतः सूत्रं नन्द्यादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावत् आर्त्तवं दिनत्रयं स्त्रीजन्मनि दिनाष्टकं पुरुषजन्मनि दिनसप्तकं अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिकं न भवति, भूमिनिखातान्यस्वाध्यायिकमिति, तथा अशुचीन-अमेध्यानि मूत्रपुरीषाणि तेषां सामन्तं० समीपमशुचिसामन्तमस्वाध्यायिकं भवति, उक्तं च कालग्रहणमाश्रित्य "सोणियमुत्तपुरीसे घाणालोयं परिहरेज्जा' इति श्मशानसामन्तंशबस्थानसमीपं, चन्द्रस्य-चन्द्रविमानस्योपरागो-राहुविमानतेजसोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह तचेदं कालमानं यदि चन्द्रः सूर्यो वा ग्रहणे सति सग्रहोऽन्यथा व निमज्जति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy