SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ स्थानं १, - उद्देशक: - ४३ मू. (५२) एगे जंबूद्दीवे २ सव्वदीवसमुद्दाणं जाव अर्द्धगुलगं च किंचिविसेसाहिए परिक्खेवेणं वृ. जम्ब्वा वृक्षविशेषेणोपलक्षितो दीपः जम्बूद्वीपः द्वीप इति नाम सामान्यं यावद्ग्रहणादेवं सूत्रं द्रष्टव्यम्- 'सव्वब्भंतरए सव्वखुड्ढाए बट्टे तेल्लापूयसंठाणसंठिए एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलससहस्साइं दोनि सयाई सत्तावीसाइं तिन्नि कोसा अठ्ठावीसं धणुसयं तेरस अंगुलाई अर्द्धगुलं च किंचिविसेसाहिए परिक्खेवेणं' ति, सुगममेतत्, उक्तविशेषणश्च जम्बूद्वीप एक एव, अन्यथा अनेकऽपि ते सन्तीति ॥ अनन्तरं जम्बूद्वीप उक्त इति तत्ररूपकस्य भगवतो महावीरस्यैकतामाह - मू. (५३) एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरमतित्थयरे सिद्धे बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे वृ. ‘एगे समणे' इत्यादि, एक:- असहायः, अस्य च सिद्ध इत्यादिना सम्बन्धः, श्राम्यतितपस्यतीति श्रमणः, भज्यत इति भगः समग्रैश्वर्यादिलक्षणः, उक्तं च"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । - 119 11 धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥” इति, स विद्यते यस्येति भगवान्, तथा विशेषेणेरयति-मोक्षं प्रति गच्छति गमयति वा प्राणिनः प्रेरयति वा कर्माणि निराकरोति वीरयति वा रागादिशत्रून् प्रति पराक्रमयति इति बीरः, निरुक्तितो या वीरो, यदाह - 119 11 ॥१॥ "विदारयति यत्कर्म्म, तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥” - इतरवीरापेक्षया महांश्चासौ वीरश्चेति महावीरः, भाष्योक्तं च'तिहुयणविक्खायजसो महाजसो नामओ महावीरो । विक्कतो य कसायाइसत्तुसेन्नप्पराजयओ ॥ ईरेइ विसेसेण व खियइ कम्भाई गमयइ सिवं वा । गच्छइ अ तेण चीरो स महं वीरो महावीरो ।।" त्ति अस्यामवसर्पिण्यां चतुर्विंशतेस्तीर्थकराणां मध्ये चरमतीर्थकरः सिद्धः कृतार्थो जातः बुद्धः-केवलज्ञानेन बुद्धवान् बोध्यं मुक्तः कर्म्मभिः यावत् करणात् 'अंतकडे' अन्तो भवस्य कृतो येन सोऽन्तकृतः 'परिनिव्वुडे' परिनिर्वृतः कर्म्मकृतविकारविरहात् स्वस्थीभूतः, किमुक्तं भवति ? - सव्वदुक्खप्पहीणे - सर्वाणि शारीरादीनि दुःखानि प्रक्षीणानि प्रहीणानि वा यस्य स सर्वदुःखप्रक्षीणः सर्वदुःखप्रहीणी वा, सर्वत्र बहुव्रीहौ क्तान्तस्य यः परनिपातः स आहिताग्न्यादिदर्शनादिति, इह च तीर्थकरेष्वेतस्यैवैकत्वं मोक्षगमने, न तु ऋ षभादीनां, दशसहस्रादिपरिवृतत्वेन तेषां सिद्धत्वाद्, उक्तं च - 119 11 'एगो भगवं वीरो तेत्तीसाऍ सह निव्युओ पासो । छत्तीसएहिं पंचहिं सएहिं नेमी उसिद्धि गओ ।।" इत्यादि एकाकी वीरो निर्वृत इत्युक्तं, निर्वृतिक्षेत्रासन्नानि चानुत्तरविमानानीति तन्निवासिदेव मानमाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy