________________
३१२
स्थानाग सूत्रम् ४/४/४१३ शस्त्रपरिज्ञाध्ययनवत्पद्य-छन्दोनिबद्धं विमुक्त्यध्ययनवत्, कथायांसाधुकथ्यं ज्ञाताध्ययनवत्, गेयं-गाम योग्यं, इहगद्यपद्यान्तर्भावेऽपीतरयोः कथागानधर्मविशिष्टतया विशेषोविवक्षित इति। अनन्तरंगेयमुक्तं
मू. (१४) नेरतिताणं चत्तारि समुग्घाता पं० २०-वेयणासमुग्घाते कसायसमुग्याते मारणंतियसमुग्धाए वेउब्बियसमुग्धाए, एवं वाउकाइयाणवि।
वृ. तच्च भाषास्वभावत्वात् दण्डमन्थादिक्रमेण लोकैकदेशादि पूरयति, समुद्घातोऽप्येवमेवेति साधम्यात् समुद्घातसूत्रे सुगमे च, नवरं समुद्धननं समुद्घातः-शरीरद्वहिर्जीवप्रदेशप्रक्षेपः, वेदनया समुद्घातः कषायैः समुद्घातो मरणमेवान्तोमरणान्तः तत्र भवो भारणान्तिकः स एव समुद्घातो वैक्रियाय समुद्घातः २ इति विग्रहा इति । वैक्रियसमुद्घातो हि लब्धिरूप उक्त इति लब्धिप्रस्तावात् विशिष्टश्रुतलब्धिमतकामभिधानाय ।
मू. (४१५) अरिहंतो णं अरिहनेमिस्स चत्तारि सया चोद्दसपुचीणमजिनानं जिणसंकासाणं सव्वक्खरसनिवाईणं जिनो इव अवितथवागरमाणाणं उक्कोसिता चउद्दसपुब्बिसंपया हुत्था।
वृ. 'अरहओ' इत्यादि सूत्रद्वयी सुगमा, नवरमजिनानामसर्वज्ञत्वात् जिनसंकाशानामविसंवादिवचनत्वाद्यथापृष्टनिर्व्वक्तृत्वाच्च सर्वे अक्षराणाम्-अकारादीनांसन्निपाता-व्यादिसंयोगा अभिधेयानन्तत्वादनन्ता अपि विद्यन्ते येषां ते सर्वाक्षरसन्निपातिनः, एतेषां जिनसंकाशत्वे कारणमाह-'जिनो विवे'त्यादि, 'उक्कोसिय'त्तिनातोऽधिकाश्चतुर्दशपूर्विणो बभूवुः कदाचिदपीति।
मू. (१६) समणस्स णं भगवओ महावीरस्स चत्तारि सया वादीणं सदेवमनुयासुराते परिसाते अपराजियाणं उक्कोसिता वादिसंपया हुत्था ।
तेच प्रायः कल्पेषु गता इति कल्पसूत्राणि सुगमानि च,
मू. (४१७) हेडिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिया पन्नत्ता, तंजहा-सोहम्मे ईसाणे सणंकुमारे माहिंदे, मझिल्ला चत्तारि कप्पा पडिपुत्रचंदंसंठाणसंठिया पन्नत्ता, तंजहा-बंभलोगे लंतते महासुक्के सहस्सारे, उवरिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहा-आणते पाणते आरणे अधुते।
पृ. नवरं 'अद्धचंदसंठाणसंठिए'त्तिपूर्वापरतो मध्यभागे सीमासद्मावादिति।देवलोका हि क्षेत्रमिति क्षेत्रप्रस्तावात् समुद्रसूत्रं व्यक्तं
मू. (४१८) चत्तारि समुद्दा पत्तेयरसा पं० २०-लवणोदे वरुणोदे खीरोदे धुतोदे।
वृ. नवरं एकमेकं प्रति भिन्नो रसो येषां ते प्रत्येकरसाः, अतुल्यरसा इत्यर्थः, लवणरसोदकत्वाल्लवणः पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदो मनिपातनादिति प्रथमः वारुणी-सुरातया समानंवारुणं वारुणमुदकं यस्मिन् स वारुणोदःचतुर्थः क्षीरवत्तथा घृतवदुदकं यत्र सक्षीरोदः पञ्चमः घृतोदः षष्ठः, कालोदपुष्करोदस्वयम्भुरमणा उदकरसाः, शेषास्तु इक्षुरसा इति, उक्त॥१॥ वारुणिवरखीरवरो घयवर लवणो य होति पत्तेया।
कालो पुक्खरउदही संयममुरमणो य उदगरसा" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org