________________
२९१
स्थानं-४,-उद्देशकः -४ घटादिवस्तुनोऽर्थान्तरभूतैः पटादिपर्यायैर्निचोर्द्धकुण्डलौष्ठायतवृत्तग्रीवादिभिर्युगपद्विवक्षितस्य सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वात् तस्यघटादेव्यस्यावक्तव्यत्वम्४, तथा घटादिद्रव्यस्यैकदेशस्य सद्मावपर्यायरादिष्टस्य सत्त्वादपरस्य स्वपरपर्याययुगपदादिष्टतया सत्त्वेनासत्वेन वा वक्तुमशक्यत्वात् घटादिद्रव्यस्य सदवक्तव्यत्वमिति ५, तथा तस्यैव घटादिद्रव्यस्यैकदेशस्य परपर्यायैरादिष्टस्यासत्त्वादपरदेशस्य स्वपरपर्यायैर्युगपदादिष्टत्वेन तथैव वक्तुमशक्यत्वात् तस्य घटादेरसदवक्तव्यत्वम् ६, तथा घटादिद्रव्यस्यैकदेशस्य स्वपर्यायैरादिषटत्वे नसत्त्वादपरस्य परपर्यायैरादिष्टतयाअसत्त्वादन्यस्य स्वपरपर्यायैर्युगपदादिष्टस्यतथैव वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति ७,
इह च प्रथमद्वितीयचतुर्था अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता दर्शिताः, तथाऽन्यैस्तृतीयोऽपिविकल्पोऽखण्डवस्त्वाश्रितएवोक्तः,तथाहि-अखण्डस्य वस्तुनःस्वपर्यायः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अत एवाभिहितमाचारटीकायाम् -
"इह चोत्पत्तिमङ्गीकृत्योत्तरविकल्पवयं न सम्भवति, पदार्थवयवापेक्षत्वात् तस्योत्पतेश्वावयवाभावादिति, एवम ज्ञानिकानां सप्तषष्टिर्भवतीति । वैनयिकानां च द्वात्रिंशत्, सा चैवमसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भवन्ति, ते चैकत्र मीलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्टयधिकानीति, उक्तञ्च पूज्यैः॥१॥ "आस्तिकमतमात्माद्या ९ नित्यानित्यात्मका नव पदार्थाः ।
कालनियतिस्वभावेश्वरात्मकृतकाः स्वपरसंस्थाः ॥२॥ कालयच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः।
नास्तिकवादिगणमतं न सन्ति सप्त स्वपरसंस्थाः ॥३॥ अज्ञानिकवादिमतं नवजीवादीन् सदादिसप्तविधान् ।
भावोत्पत्तिं सदसवैधाऽवाच्याञ्च को वेत्ति? ॥१॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः ।
सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा" इति, एतान्येव समवसरणानि चतुर्विंशतिदण्डके निरूपयन्नाह- 'नेरइयाण' मित्यादि सुममं, नवरं नारकादिपञ्चेन्द्रियाणां समनस्कत्वाच्चत्वार्यप्येतानि सम्भवन्ति, "विगलेंदियवनंति एकद्वित्रिचतुरिन्द्रियाणाममनस्कत्वात्रसम्भवन्तितानिति।पुरुषाधिकारात्पुरुषविशेषप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशतं 'चत्तारि मेहे त्यादीत्याह, - मू. (३६८) चत्तारि मेहा पं० २०-गजित्ता नाममेगे नो वासित्ता वासित्ता नाममेगे नो गजित्ता एगे गजित्तावि वासित्तावि एगे नो गजित्ता नो वासित्ता १, एवामेव चत्तारि पुरिसजाया पं०२०-गजित्ता नाममेगेनोवासित्ता ४, २, चत्तारि मेहा पं०२०-गजित्ता नामभेगेनो विजुयाइत्ता विजुयाइत्ता नाममेगे४, ३, एवामेव चत्तारिपुरिसजाया पं०२० गजित्ता नाममेगे नो विजुयाइत्ता
४,४,
चत्तारि मेहा पं० २०-वासित्ता नाममेगे नो विजुयाइत्ता ४, ५, एवामेव धत्तारिपुरिस०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org