SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशकः - ३ - २६९ तं०-जातिसंपन्ने नाममेगे चउभंगो, चत्तारि कंथगा पं० तं०-जातिसंपन्ने नाममेगे नो बलसंपत्रे ४, एवामेव चत्तारि पुरिसाजाता पं० तं०-जातिसंपन्ने नाममेगे नो बलसंपन्ने ४, चत्तारि कंथगा पं० तं० - जातिसंपन्ने नाममेगे नो रूवसंपन्ने ४, एवामेव चत्तारि पुरिसजाता पं० तं०-जातिसंपन्ने नाममेगे नो रूवसंपन्ने ४ चत्तारि कंथगा पं० तं०-जाइसंपन्ने नाममेगे नो जयसंपन्ने ४ एवामेव चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने ४, एवं कुलसंपन्त्रेण य बलसंपन्नेण त ४, कुलसंपन्नेय य रूवसंपन्नेण त ४ कुलसंपन्नेत जयसंपन्नेण त ४ एवं बलसंपन्नेण त रूवसंपन्नेण त ४ बलसंपन्त्रेण त जयसंपन्त्रेणत ४, सव्वत्थ पुरिसजाया पडिकक्खो, चत्तारि कंथगा पं० तं०-रूवसंपन्ने नाममेगे नो जयसंपात्रे ४ एवामेव चत्तारि पुरिसजाया पं० तं० - रूवसन्ने नाममेगे नो जयसंपन्ने ४ । चत्तारि पुरिसजाया पं० तंजहा सीहत्ताते नाममेगे निक्खते सीहत्ताते विहरइ सीहत्ताते नाममेगे निक्खते सियालत्ताए विहरइ सीयालत्ताए नाममेगे निक्खते सीहत्ताए विहरइ सीयालत्ताए नाममेगे निक्खते सीयालत्ताए विहरइ । वृ. ‘चत्तारी’त्यादि, आत्मानं बिभर्त्ति - पुष्णातीत्यात्मम्भरिः प्राकृतत्वादायंभरे, तथा परं बिभर्तीति परम्भरिः, प्राकृतत्वात्परं भरे इति, तत्र प्रथमभंगे स्वार्थकारक एव, स च जिनकल्पिको, द्वितीयः परार्थकारक एव, स च भगवानर्हन्, तस्य विवक्षया सकलस्वार्थसमाप्तेः वरप्रधानप्रयोजनप्रापणप्रवणप्राणितत्वात्, तृतीये स्वपरार्थकारी, स च स्थविरकल्पिकः विहितानुष्ठानतः स्वार्थकरत्वाद्विधिवत्सिध्धान्तदेशनातश्च परार्थसम्पादकत्वात्, चतुर्थे तूभयानुपकारी, सच मुग्धमतिः कश्चिद्यथाच्छन्दो वेति, एवं लौकिकपुरुषोऽपि योजनीयः । उभयानुपकारी च दुर्गत एव स्यादिति दुर्गतसूत्रं, दुर्गतो- दरिद्रः, पूर्वं धनविहीनत्वात् ज्ञानादिरत्नविहीनत्वाद्वा पश्चादपि तथैव दुर्गत एवेति, अथवा दुर्गतोद्रव्यतः पुनर्दुर्गतो भावत इति प्रथमः एवमन्ये त्रयो, नवरं सुगतो द्रव्यत धनी भावतो ज्ञानादिगुणवानिति । दुर्गतः कोऽपि व्रती स्यादिति दुर्व्रतसूत्रं, दुर्गतोदरिद्रः दुर्व्रतः असम्यग्व्रतोऽथवा दुर्व्ययः आयनिरपेक्षव्ययः कुस्थानव्ययो वेत्येकः, अन्यो दुर्गतः सन् सुव्रतो-निरतिचारनियमः, सुव्ययो वौचित्यप्रवृत्तेरिति, इत्तरौप्रतीतौ । दुर्गतस्यैव दुष्प्रत्यानन्दः- उपकृतेन कृतमुपकारं यो नाभिमन्यते, यस्तु मन्यते तं स सुप्रत्यानन्द इति । दुर्गतो दरिद्रः सन् दुर्गतिं गमिष्यतीति दुर्गतिगामीत्येवमन्येऽपि, नवरं सुगतिं गमिष्यतति सुगतिगामी, सुगतः - ईश्वर इत्यर्थः । दुर्गतस्तथैव दुर्गतिं गतः यात्राजनकुपिततन्मारणप्रवृत्तद्रमकतवत्, एवमन्ये त्रयः । तम इव तमः पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकः, अन्यस्तु तमः पूर्व पश्चाज्योतिरिवज्योतिरूपार्जितज्ञानत्वात् प्रसिदअधिप्राप्तत्वाद्वा, शैषौ सुज्ञानौ । तमः-कुकर्मकारितया मलिनस्वभावस्तमः - अज्ञातं बलं -सामर्थ्यं यस्य तमः - अन्धकारं वा तदेव तत्र वा बलं यस्य स तथा, असदाचारवानज्ञानी रात्रिचरो वा चौरादिरित्येकः, तथा तमस्तथैव ज्योतिः -ज्ञानं बलं यस्य आदित्यादिप्रकाशो वा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा, अयं चासदाचारो दानवान् दिनचारी वा चौरादिरिति द्वितीयो ज्योतिः - सत्कर्मकारितयोज्जवलस्वभावस्तमोबलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तराद्वा रात्रिचर इति तृतीयः, चतुर्थः सुज्ञानः, अयश्चसदाचारवान् ज्ञानी दिनचरो वेति । तथा तमस्तथैव 'तमबलपलज्जणे' त्ति तमो-मिथ्याज्ञानं अन्धकारं वा तदेव बलं तत्र वा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy