________________
स्थान-१, · उद्देशकःतत्पापस्यैव तरतमयोगादकृष्टस्य फलं, यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलता, तस्यैव च तरतम-योगापकर्षभिन्नस्य मात्रापरिवृद्धिहान्या यावत् प्रकृष्टोऽपकर्षस्तत्र या काचित्पापमात्रा अवतिष्ठते तस्यामत्यन्तं शुभफलता पापापकर्षात्, तस्यैव च पापस्य सर्वात्मना क्षयो मोक्षः, यथाऽत्यन्ताप- थ्याहारसेवनादनारोग्यम्, तस्यैवापथ्यस्य किञ्चित्किञ्चिदपकर्षात् यावत् स्तोकापथ्याहारत्या-मारोग्यकरं, सर्वाहारपरित्यागाच प्राणमोक्ष इति, आह च॥१॥ “पावुकरिसेऽधमयचा तरतमजोगाऽवकरिसओ सुभया।
तस्सेव खए मोक्रवो अपत्थभत्तोवमाणाओ"त्ति, अत्रोच्यते, यदुक्तम्-‘अत्यन्तापचितात् पापात् सुखप्रकर्ष' इति, तदयुक्तम्, यतो येयं सुखप्रकर्षानुभूतिःसा स्वानुरूपकर्मप्रकर्षजनिता, प्रकर्षानुभूतित्वात्, दुःखप्रकर्षानुभूतिवत्, यथा हि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्माप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि सुखप्रकर्षानुभूतिः स्वानुरूपपुण्यकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति ।
पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमाहमू. (१२) एगे पावे।
वृ. 'एगे पावे' पाशयतिगुण्डयत्यात्मानं पातयतिचात्मन आनन्दरसंशोषयति क्षपयतीति पापम्, तच्च ज्ञानावरणादि व्यशीतिभेदम्, यदाऽऽह॥१॥ “नाणंतरायदसगं १० दंसण नव १९ मोहणीयछब्बीसं ४५।
___ अस्सायं ४६ निरयाऊ ४७ नीयागोएण अडयाला ४८।। ॥२॥ निरयदुगं२ तिरियदुगं४ आइचउक्कं च ८ पंच संघयणा १३ ।
संठाणाविय पंच उ १८ वनाइचउक्कमपसत्थं २२ ।। ॥३॥ उवघाय २३ कुविहयगई २४ थावरदसगेण होति चोत्तीसं ३४ ।
सव्वाओ मिलिआओ बासीती पावपगईओ ८२"।। तदेवं यशीतिभेदमपि पुण्यानुबन्धिपापानुबन्धिभेदाद् द्विविधमपि वा अनन्त. सत्त्वाश्रितत्वादनन्तमपि वाऽशुभसामा न्यादेकमिति । ननु कर्मसत्त्वेऽपि पुण्यमेवैकं कर्म न तत्प्रतिपक्षभूतं पापं कर्मास्ति, शुभाशुभफलानां पुण्यादेव सिद्धेरिति, तथाहि-यत्परमप्रकृष्टं शुभफलमेतत् पुण्योत्कर्षस्य कार्य, यत्पुनस्तस्माद- वकृष्टमवकृष्टतरमवकृष्टतमंच तत्पुण्यस्यैव तरतमयोगापकर्षभिन्नस्य यावत्परमप्रकर्षहानिः, परमप्रकर्षहीनस्य च पुण्यस्य परमावकृष्टतमं शुभफलं-या काचित्शुभमात्रेत्यर्थः-दुःखप्रकर्षइति तात्पर्यं, तस्यैवचपरमावकृष्टपुण्यस्य सर्वात्मना क्षये पुण्यात्मकबन्धाभावान्मोक्ष इति, यथा अत्यन्तपथ्याहारसेवनात्पुंसः परमारोग्यसुखं, तस्यैव चकिञ्चित्(२)पथ्याहारविवर्जनादप-थ्याहारपरिवृद्धोरारोग्यसुखहानिः,सर्वथैवाहारपरिवर्जनात् प्राणमोक्ष इति, पथ्याहारोपमानं चेह पुण्यमिति, अत्रोच्यते, येयं दुःखप्रकर्षानुभूतिः सा स्वानुरूपकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति, आह च -- ॥१॥ "कम्मप्पगरिसजणियं तदवस्सं पगरिसाणुभूइओ।
सोक्खप्परगरिसभूई जह पुण्णप्पगरिसप्पभवा" इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org