SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ स्थानं - २, - उद्देशकः -४ पू. (१०४) जं जोयणविच्छिन्नं, पल्लं एगाहियप्परूढाणं । होज निरंतरनचितं भरितं बालग्गकोडीणं वृ. 'जं' गाह, किल यद्योजनविस्तीर्णमित्युपलक्षणत्वात्सर्वतो यद्योजनप्रमाणं पल्यधान्यस्थानविशेषः एकाह एव ऐकाहिकस्तेन प्ररूढानां वृद्धानां मुण्डिते शिरसि एकेनाह्ना यावत्यो भवन्तीत्यर्थः, एतस्य चोपलक्षणत्वादुत्कर्षतः सप्ताहप्ररूढानं वालाग्राणां कोट्यो-विभागाः सूक्ष्मपल्योपमापेक्षयाऽसंख्येयखण्डानि बादरपल्योपमापेक्षया तु कोटयः सङ्ख्याविशेषाः तासां किं भवेत् ? - 'भरितं' भृतं, कथमित्याह - 'निरन्तरं' निचितं निबिडतया निचयवत्कृतमिति । मू. (१०५) वाससए वासस एके के अवहडंमि जो कालो । सो कालो बोद्धव्वो, उवमा एगस्स पल्लस्स ।। वृ. 'वास' गाहा, एतस्मात्मपल्याद्वर्षशते वर्षशतेऽतिक्रान्ते सति प्रतिवर्षशतमित्यर्थः, एकैकस्मिन् वालाग्रे असड्रव्येखण्डेचापहृते-उद्ध ते सति 'यः कालो' यावती अद्धा भवति प्रमाणतः स तावान् कालो बोद्धव्यः, किमित्याह - 'उपमा' उपमेयः, कस्येत्याह-एकस्य पल्यस्य, इदमुक्तं भवति-स काल एकं पल्योपमं सूक्ष्मं व्यावहारिकं चोच्यत इति । पू. (१०६) एएसिं पल्ला कोडाकोडी हवेज्ज दसगुणिता । १०३ तं सागरोवमस्स उ एगस्स भवे परीमाणं ॥ वृ. 'एएसिं' गाहा, एतेषाम् उक्तरूपाणां सूक्ष्मबादराणां 'पल्यानां ' पल्योपमानां कोटीकोटी भवेद् दशगुणिता यदिति गम्यते, दश कोटीकोट्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य बादररूपस्य वा सागरोपमस्यैव भवेत्परमाणमिति । एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिर्निरूप्यते तत्वस्वरूपनिरूपणायाह -- मू. (१०७) दुविहे कोहे पन्नत्ते तं० - आयपइट्टिते चेव परपइट्टिए चैव, एवं नेरइयाणं जाव वेमाणियाणं, एवं जाव मिच्छादंसणसल्ले । बृ. आत्मापराधादैहिकापायदर्शनादात्मनि प्रतिष्ठितः - आत्मविषयो जातः आत्मना वा परत्राक्रोशादिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठितः उदीरितः परस्मिन् वा प्रतिष्ठितो जातः परप्रतिष्ठित इति । 'एव' मिति यथा सामान्यतो द्वेधा क्रोध उक्त एवं नारकादीनां चतुर्विंशतेर्वाच्यः, नवरं पृथिव्यादीनामसंज्ञिनामुक्तलक्षणमात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् क्रेधगतमवगन्तव्यमिति । एवं मानादीनि मिध्यात्वान्तानि पापस्थानकान्यात्मपरप्रतिष्ठितविशेषणानि सामान्यपदपूर्वकं चतुर्विंशतिदण्डकेनाध्येतव्यानि, अत एवाह - 'एवं जाव मिच्छादंसणसल्ले' त्ति, एतेषां च मानादीनां स्वविकल्पजातपरजनितत्वाभ्यां स्वात्मवर्त्तिपरात्मवर्त्तिभ्यं वा स्वपरप्रतिष्ठितत्वमवसेयम् । एवमेते पापस्थानाश्रितास्त्रयोदश दण्डका इति । · उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आहभू. (१०८) दुविहा संसारसमावन्नगा जीवा पं० तं० तसा चेव थावरा चेव, दुविहा सव्वजीवा पं० तं० - सिद्धा चैव असिद्धा चैव, दुविहा सव्वजीयाप० तं० सइंदिया चेव अणिंदिया चेव, एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव - - सृ. 'दुविहे 'त्यादि कण्ठ्यमिति ॥ ननु संसारिण एव जीवा उतान्येऽपि सन्ति ?, सन्त्येवेति For Private & Personal Use Only www.jainelibrary.org Jain Education International -
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy