________________
९६
आचाराङ्ग सूत्रम् 9/-१२/9/- [नि. १७७] नि. [१७७] जह सव्वपायवाणं भूमीए पइट्टियाइं मूलाई।
इय कम्मपायवाणं संसारपइट्ठिया मूला ।। वृ. यथासर्वपादपानां भूमौ प्रतिष्ठितानिमूलानि, एवं कर्मपादपानांसंसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः । ननु च कथमेतच्छ्रद्धेयं-कर्मणः कषायामूलमिति?, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः, तथा चागम;- “जीवेणंभंते! कतिहिं ठाणेहिं णाणावरणिनं कम्मं बंधइ?, गोयमा ! दोहिं ठाणेहि, तंजहारागेण व दोसेण व ! रागे दुविहेमायालोभेय,दोसेदुविहे-कोहेयमाणेय। एएहिंचउहिं ठाणेहिं वीरिओवगूहिएहिनाणावरणिज्जं कम्मंबंधई" एवमष्टानामपि कर्मणांयोज्यमिति।तेचकषायामोहनीयान्तःपातिनोऽष्टप्रकारस्य चकर्मणः कारणं, मोहनीय कामगुणानां च (इति) दर्शयतिनि. [१७८] अट्ठविहकम्मरुक्खा सव्वे ते मोहणिज्जमूलागा।
कामगुणमूलगंवा तम्मूलागंच संसारो॥ वृ. यदवादि प्राक् - ‘इय कम्मपायवाणं तत्र कतिप्रकाराः ते कर्मपादपाः किंकारणा श्चेति?, उच्यते-अष्टविधकर्मवृक्षाः, तेसर्वेऽपिमोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद्वेदोदयात् कामाः, वेदश्च मोहनीयान्तःपातीत्यतस्तन्मोहनीयंमूलम्आद्य कारणं यस्य संसारस्य स तथा इति गाथार्थः ।। तदेवं पारम्पर्येण संसारकषायकामानां कारण-त्वान्मोहनीयं प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्मक्षयः, तथा चाभाणि - ॥१॥
"जेह मत्थयसूईए, हयए हम्मए तलो। तहा कम्माणि हम्मंति, मोहणिज्जे खयं गए'
तच्च द्विधा-दर्शनचारित्रमोहनीयभेदात्, एतदेवाह -- नि. [१७९] दुविहोअ होइ मोहो दंसणमोहो चरित्तमोहो ।
कामा चरित्तमोहो तेणहिगारो इहं सुत्ते॥ वृ.मोहनीयं कर्म द्वधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतो.विध्यात्, तथाहि-अर्हत्सिद्धचैत्यतपः-श्रुतगुरुसाधुसधप्रत्यनीकतया दर्शनमोहनीयं कर्म बघ्नाति, येन चासावनन्तरसंसारसमुद्रान्तःपात्येवावतिष्ठते, तथा तीव्रकषायबहुरागद्वेषमोहाभिभूतः सन् देशसर्वविरत्युपधातिचारित्रमोहनीयं कर्मबघ्नाति,तत्रमिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वभेदात्रेधा दर्शनमोहनीयं, तथा षोडशकषायनवनोकषायभेदाच्चारित्रमोहनीयं पञ्चविंशतिधा, तत्र कामाः शब्दादयः पञ्च चारित्रमोहः, तेन चात्र सूत्रेऽधिकारो, यतः कषायाणां स्थानमत्र प्रकृतं, तच्च शब्दादिकपञ्चगुणात्मकमितिगाथार्थः। तत्रचारित्रमोहनीयोत्तरप्रकृतिस्त्रीपुंनपुंसकवेदहास्यरतिलोभाश्रितकामायिणः कषायाः संसारमूलस्यचकर्मणःप्रधानं कारणमिति प्रचकटयिषुराह. नि. [१८०] संसारस्स उ मूलं कम्मं तस्सविहुंति य कसाया।
तेसयणपेसअस्थाइएसु अज्झत्थओ अठिआ॥ वृ.'संसारस्य नारकतिर्यग्नरामरगतिसंसृतिरूपस्य(मूल)कारणमष्टप्रकारकर्म, तस्यापि कर्पण:-क्रोधादयोनिमित्तंभवन्ति।तेषांचप्रतिपादितशब्दादिस्थानानांप्रचुरस्थानत्वप्रतिपादनाय पुनरपि स्थानविशेष गाथाशकलेनाह- स्वजनः-पूर्वापरसंस्तुतोमातापितृश्वशुरादिकः प्रेष्योमृत्यादिरों-धनधान्यकुप्य-वास्तुरलभेदरूपः ते स्वजनादयः कृतद्वन्द्वा आदिर्येषां मित्रादीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org