________________
७६
नि. [१६३]
आचाराङ्ग सूत्रम् १ /-/ १/६/- [नि. १६३]
सेसाई दाराई ताई जाई हवंति पुढवीए । एवं तसकायंमी नित्ती कित्तिया एसा ॥
वृ. उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येव वाच्यानि यानि पृथ्वीस्वरूपसमधिगमे निरुपितानि, अत एवमशेषद्वाराभिधानात्रसकाये निर्युक्तिः कीर्त्तितैषा सकला भवतीत्यवगन्तव्येति साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम्
—
मू. (४९) से बेमि संतिमे तसा पागा, तंजहा- अंड्या पोयया जराउआ रसया संसेयया संमुच्छिमा उब्भियया उववाइया, एस संसारेत्ति पवुच्चई ।
वृ. अस्य चानन्तरपरम्परादिसूत्र सम्बन्धः प्राग्वद्वाच्यः, सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दविनिसृतार्थजातावधारणात् यथावदुपलब्धं तत्त्वमिति, 'सन्ति विद्यन्ते त्रस्यन्तीति त्रसाः- प्राणिनो द्वीन्द्रियादयः, ते च कियद्भेदाः किंप्रकाराश्चेति दर्शयति- 'तद्यथे 'ति वाक्योपन्यासार्थः, यदिवा 'तत्' प्रकारान्तरमर्थतो यथा भगवताऽभिहित्तं तथाऽहं भणाआमीति, अण्डाजाताः अम्डजाः - पक्षिगृहकोकिलादयः, पोता एव जायन्ते पोतजाः 'अन्येष्वपि दृश्यते इति जनेर्डप्रत्ययः, ते च हस्तिवल्गुलीचर्मजलूकादयः, जरायुवेष्टिता जायन्त इति जरायुजाः, पूर्व वत् डप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः, रसाज्जाता रसजाः- तकारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्माभवन्ति, संस्वेदाज्जाताः संस्वेदजाः - मत्कुणयूकाशतपदिकादयः, सम्मूर्छनाज्जाताः सम्मूर्छनजाः शलभपिपीलिकामक्षिकाशालिकादयः, उद्भेदनमुद्भित्ततो जाता उद्मिजाः, पृषोदरादित्वाद्दलोपः, पतङ्गखञ्जरीटपारीप्लवादयः, उपपाताज्जाता उपपातजाः, अथवा उपपाते भवा औपपातिकाः - देवा नारकाश्च, एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते, एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं "सम्मूर्छनगर्भोपपाता जन्म" रसस्वेदजोद्भिज्जानां सम्मूर्छनजान्तः पातित्वात् अण्डजपोतजजरायुजानां गर्भजान्तः पातित्वात् देवनारकाणामीपपातिकान्तः पातित्वात् इति त्रिविधं जन्मेति, इहचाष्टविधं सोत्तरभेदत्वादिति । एवमेतस्मिन्नष्टविधेजन्मनि सर्वे त्रसजन्तवः संसारिणी निपतन्ति, नैतद्व्यतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः, 'सन्तिच' अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते त्रसानां, न कदाचिदेतैर्विरहितः संसारः सम्भवतीति एतदेव दर्शयति- 'एस संसारोत्ति पवुच्चति' एषः - अम्डजादिप्राणिकलापः संसारः प्रोच्यते, नातोऽन्यस्त्रसानामुत्पत्तिप्रकारोऽस्तीत्युक्तं भवति कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याहमू. (५०) मंदस्सावियाणओ ।
वृ. मन्दो द्विधा - द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशो वा, भावमन्दोऽप्यनुपचितबुद्धिर्वालः कुशास्त्रवासितबुद्धिर्वा, अयमपि सद्बुद्धेरभावाद्वाल एव, इह भावमन्देनाधिकारः, 'मन्दस्ये' ति बालस्याविशिष्टबुद्धेः अत एव अविजानतहिताहितप्राप्तिपरिहारशून्यमनसः इत्ये षोऽनन्तरोक्तः संसारो भवतीति ॥ यद्येवं ततः किमित्याह -
मू. (५१) निज्झाइत्ता पडिलेहित्ता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अस्सायं अपरिनिव्वाणं महत्मयं दुक्खं- तिबेभि, तसंति पाणा पदिसो दिसासु य ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org