________________
५८
आचाराङ्ग सूत्रम् 9/19/४/३२ सत्यात्मवप्रसाधितपग्निलोकंयः प्रत्याचक्षीत सोऽतिसाहसिकआत्मानमम्याख्याति-निराकरोति, यश्चात्माभ्याख्यान प्रवृत्त :स सदैवाग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद्विशेषाणां, सति ह्यात्मसामान्येपृथिव्याद्यात्मविभागः सिद्धयतिनान्यथा, सामान्यस्यविशेषव्यापकत्वात्, व्यापकविनिवृत्तीचव्याप्यस्याप्यवश्यंभाविनी विनिवृत्तिरितिकृत्वा एवमयमग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम्, अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह
मू. (३३) जे दीहलोगसत्थस्स खेयण्णे से असत्यस्स खेयण्णे जे असत्थस्स खेयण्णे से दीहलोगसत्थस्स खेयण्णे।
वृ.'य' इतिमुमुक्षुदीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्यापरिमाणेन शरीरोच्छ्रयेण चशेषैकेन्द्रियेभ्योदी? वर्तते, तथाहि-कायस्थित्या तावत् ‘वणस्सइकाइएणंभंते? वणस्सइकाइएत्तिकालओकेवच्चिरहोइ?,गोयमा! अनंतंकालं अनंताओउस्सप्पिणि-अवसप्पिणिओ खेत्तओ अनंतालोयाअसंखेज्जा पोग्गलपरियट्टा, तेणंपुग्गलपरियट्टा आवलियाए असंखेज्जइभागे' परिमाणतस्तुपडुप्पन्नवणस्सइकाइयाणंभंते! केवतिकालस्स निल्लेवणासिया?, गोयमा! पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा' तथा शरीरोच्छ्रयाच्च दी? वनस्पतिः 'वणस्सइकाइयाणं भंते ! महालिया सरीरोगाहणा पण्णत्ता ?, गोयमा साइरेगंजोयणसहस्सं सरीरोगाहणा' न तथाऽन्येषामेकेन्द्रियाणाम,अतःस्थितमेतत्-सर्वथा दीर्घलोको वनस्पतिरिति,अस्यचशस्त्रमग्निः, यस्मात्स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छंस्त्रं, ननुच सर्वलोकप्रसिद्धया कस्मादग्निरेव नोक्तः?, किंवा प्रयोजनमुररीकृत्योक्तं दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादय-मुत्पाद्यमानोज्वाल्यमानो वाहव्यवाहः समस्तभूतग्रामघाताय प्रवर्तते, वनस्पतिदाहप्रवृत्तस्तुबहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतोवनस्पतौकृमिपिपीलिकाभ्रमरकपोतश्वापदादयः सम्भवन्ति, तथा पृथिव्यपितरुकोटर व्यवस्थितास्यात्, आपऽप्यवश्यायरूपाः, वायुरपीषच्चञ्जलस्वभावकोमलकिशलयानुसारीसम्भाव्यते, तदेवमग्निस-मारम्भप्रवृत्तएतावतो जीवानाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार इति, तथा चोक्तम् ॥१॥ "जायतेयं न इच्छन्ति, पावगंजलइत्तए।
तिक्खमन्नयरंसत्थं, सव्वओऽविदुरासयं ।। ॥२॥ पाईणं पडिणं वावि, उड्ढं अणुदिसामवि।
अहे दाहिणओ वावि, दहे उत्तर ओऽविय। ॥३॥
भूयाणमेसमाधाओ, हव्ववाहो न संसओ।
तंपईवपयावट्ठा, संजओ किंचि नारभे ।।" अथवा बादरतेजस्कायाः पर्याप्तकाः स्तोका,शेषाः पृथिव्यादयोजीवकाया बहवः, भवस्थितिरपि त्रीण्यहोरात्राणिस्वल्प इतरेषांपृथिव्यब्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदशवर्षसहस्रपरिमाणादीर्घाअवसेया इति, अतोदीर्घलोकः-पृथिव्यादिस्तस्य शस्त्रम्-अग्निकायस्तस्य 'क्षेत्रज्ञो निपुणः अग्निकार्यवर्णादितोजानातीत्यर्थः, 'खेदज्ञो वा' खेदः-तद्व्यापारः सर्वसत्त्वानां
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org