________________
आचाराङ्ग सूत्रम् १/-/१/४/- [ नि. ११८ ] सहस्रभेदपरिमाणा भवन्ति, तत्रैषां संवृता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति ॥
साम्प्रतं चशब्दसमुच्चितं लक्षणद्वारमाह-नि. [११९ ]
५६
जह देहप्परिणामो रत्तिं खज्जोयगस्स सा उबमा । जरियस्स य जह उम्हा तओवमा तेउजीवाणं ॥
वृ. 'यथे 'ति ध्ष्टान्तोपन्यासार्थः 'देहपरिणामः' प्रतिविशिष्टा शरीरशक्तिः 'रात्रा' विति विशिष्टकालनिर्देशः 'खद्योतक' इति प्राणिविशेषपरिग्रहः, यथा तस्यासौ देहपरिणामो जीवप्रयोगनिर्वृत्तशक्तिराविश्चकास्ति, एवमङ्गारादीनामपि प्रति विशिष्टा प्रकाशादिशक्तिनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा वा - ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, जीवाधिष्ठितशरीरकानुपात्येव भवति, एषैवोपमाऽऽग्नेयजन्तूनां न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता मुक्तकग्रन्थोपपत्तिमुखेन प्रतिपादिता, सम्प्रति प्रयोगमारोप्यते अयमेवार्थःजीवशरीराण्यङ्गारादयः, छेद्यत्वादिहेतुगणान्वितत्वात्, सास्नाविपाणादिसङ्घातवत्, तथा आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः, शरीरस्थत्वात्, खद्योतक देहपरिणामवत्, तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा, शरीरस्थत्वात्, ज्वरोष्पवत्, न चादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभावत्वं तस्मान्नानेकान्तः, तथा सचेतनं तेजो, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारत्वत्त्वात्, पुरुषवत्, एवमादिना लक्षणेनाग्नेया जन्तवो निश्चेया इति ॥
उक्तं लक्षणद्द्वारं, तदनन्तरं परिमाणद्वारमाहनि. [१२० ]
जे बायरपजत्ता पलिअस्स असंखभागमित्ता उ । सेसा तिष्णिवि रासी बीसुं लोगा असंखिज्जा ॥
वृ. ये बादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्घयेयभागमात्रवर्त्तिप्रदेशराशिपरिमाणा: भवन्ति, ते पुनर्बादरपृथिवीकायपर्याप्तकेभ्योऽसङ्घयेयगुणहीनाः, शेषायोऽपि राशयः पृथ्वीकायवद्भावनीयाः, किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो बादराग्न्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः, सूक्ष्माग्नेयपर्याप्तिका विशेषहीना इति ।। साम्प्रतमुपभोगद्वारमाहनि. [१२१] दहणे पयावण पगासणे य सेण य भत्तकरणे य बायर उक्काए उपभोगगुणा मणुस्साणं ॥
वृ. दहनं - शरीराद्यवयवस्य वाताद्यपनयनार्थं प्रकृष्टं तापं प्रतापनं - शीतापनोदाय प्रकाशकरणमुद्योतकरणं- प्रदीपादिना भक्तकरणम् - ओदनादिरन्धनं खेदो ज्वरविसूचिकादी नाम, इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां वादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति ॥ तदेवमेवमादिभिः कारणैः समुपस्थितैः सततभारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणस्तेजस्कयजन्तून् हिंसन्तीति दर्शयितुमाह -
नि. [१२२]
एएहिं कारणेहिं हिंसंती तेउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org