________________
४८
आचाराङ्ग सूत्रम् 91-19/३/- [नि. ११२] तद् 'उदीरयन्ति' असातवेदनीयमुत्पादयन्तीत्यर्थः, उक्तं च - ॥७॥ “एकं हि चक्षुरमलं सहजो विवेकस्द्धभिरेव सह संवसतिर्द्धितीयम् । एतद्द्वयं भुविन यस्य स तत्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः? ।।
-इदानीं शस्त्रद्वारमुच्यते-- नि. [११३] उस्सिचणगालणधोवणेय उवगरणमत्तभंडे य ।
बायरआउक्काए एयं तु समासओ सत्यं ॥ वृ. शस्त्रंद्रव्यभावभेदाद्विधा-द्रव्यशस्त्रमपिसमासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रमिदम्-ऊर्द्ध सेचनमुत्सेचनं-कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, 'गालनं' घनमसृणवस्त्रार्द्धान्तेन धावनं वस्त्राधुपकरणचर्मकोशकटाहादिभण्डकविषयम्, एवमादिकंबादराप्काये 'एतत् पूर्वोक्तं समासतः' सामान्येन शस्त्रं, तुशब्दो विभागापेक्षया विशेषणार्थः ।।
विभागत: स्तित्वेदम् - नि. [११४] किंची सकाय सत्थं किंची परकाय तदुभयं किंचि।
एयंत दव्वसत्थं भावे य असंजमो सत्यं॥ वृ. किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किञ्चित्परकायशस्त्रं मृत्तिकास्नेहक्षारादि, किञ्चिच्चोभयं उदकमिश्रामृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षण इति ।। शेषद्वाराणि पृथिवीकायवनेतव्यानि इति दर्शयितुमाह - नि. [११५] सेसाइंदाराइताइंजाइंहवंति पुढवीए।
एवंआउद्देसे निजुत्ती कित्तिया एसा ॥ वृ. 'शेषाणी' त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि, तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, ‘एवम्' उक्तप्रकारेणाप्कायोद्देशके 'नियुक्तिः' निश्चयेनार्थघटना 'कीर्तिता' प्रदर्शिता भवतीति ।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतंसूत्रमुच्चारणीयं, तच्चेदम्
मू. (१९) से बेमि जहा अनगारे उज्जुकडे नियायपडिवण्णे अमायं कुब्वमाणे वियाहिए
वृ. “से बेमी'त्यादि अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परिसमाप्तिसूत्रे 'पृथिवीकायसमारम्भव्यावृत्तो मुनि रित्युक्तं, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति, तथाऽऽदिसूत्रेणायं सम्बन्धः-सुधर्मस्वामी इदमाह-श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यच्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः । सेशब्दस्तच्छब्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग भवति तदहं ब्रवीमि, अपिःसमुच्चये, स यथा वाऽनगारो न भवति, तथा च ब्रवीमि अणगारा मोत्ति एगे पयवमाणे'त्यादिनेति, न विद्यतेअगारं-गृहमस्येत्यनगारः, इहच यत्यादिशब्दव्युदासेनानगार-शब्दोपादानेनैतदाचष्टे-गृहपरित्यागः प्रधानं मुनित्वकारणं, तदाश्रयत्वात्सावद्यानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरिति दर्शयति-'उञ्जकडेत्तिऋ जुः-अकुटिलः संयमोदुष्प्रणिहितमनोवाक्कायनिरोधःसर्वसत्त्वसंरक्षणप्रकृतत्वाद्दयैकरूपः, सर्वत्राकुटिलगतिरितियावत्, यदिवा मोक्षस्थानगमन-र्जुश्रेणिप्रतिपत्ति सर्वसंवरसंयमात, कारणेकार्योपचारंकृत्वा संयम एक्सप्तदशप्रकार ऋ जुःतंकरोतीतिऋजुकृत, ऋजुकारीत्यर्थः । अनेन चेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः, एवंविधश्च भवतीति दर्शयति-नियागपडिवन्ने'त्ति, यजनं त्यागः नियतो निश्चितो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org