SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४६ नि. [१०६ ] आचाराङ्ग सूत्रम् १/-/१/३/- [नि. १०६] वृ. अष्कायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, 'नानात्वं' भेदरूपं विधानपरिमाणोपभोगशस्त्रविषत्वं द्रष्टव्यं, चशब्दाल्लक्षणविषयंच, तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति । तत्र विधानं प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाहनि. [१०७] दुविहाउ आउजीवा सुहुमा तह बायरा य लोगंभि । हुमा य सव्वलोए पंचैव य बायरविहाणा || तत्र पञ्च बादरविधानानि दर्शयितुमाह - सुद्धोदए य उस्सा हिमे य महिया य हरतणू चेव । बायर आउविहाणा पंचविहा वण्णिया एए ॥ बृ. स्पष्टा ॥ नि. [ १०८ ] वृ. 'शुद्धोदक' तडागसमुद्रनदीद्रहावटादिगतमवश्यायादिरहितमिति, 'अवश्यायो" रजन्यां यहः पतति, हिमं तु शिशिरसमये शीतपुद्गलसम्पक्कज्जलमेव कठिनीभूतमिति, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिकेत्युच्यते, वर्षाशरत्कालयोर्हरिताङ्कुरमस्तकस्थितो जलबिन्दुर्भूमिस्नेहसम्पक्वद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च बादराप्कायविधयो व्यावर्णिता । ननु च प्रज्ञापनायां बादराप्कायभेदा बहवः परिपठिताः, तद्यथा- करकशीतोष्णक्षारक्षत्रकट्वम्ललवणवरुणकालोदपुष्कर क्षीरभृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्ग्रहः ?, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्तः- पाती, शेषास्तु स्पर्शरसस्थानवर्णमात्रभिन्नत्वान्न शुद्धोदकमतिवर्त्तन्ते, यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः ?, उच्यते, स्त्रीबालमन्दबुद्धयादिप्रतिपत्त्यर्थमिति, इहापि कस्मान्न तदर्थं पाठः ?, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादार्थ, तत्र युक्तः सकलभेदोपन्यासः ख्याद्यनुग्रहाय निर्युक्तयस्तु सूत्रार्थं पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्य- दोषः । त एते बादराकायाः समासतो द्वेधाः- पर्याप्तका अपर्याप्तकाश्च तत्रापर्याप्तका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तुवर्णगन्धरसस्पर्शा देशैः सहाग्रशो भिद्यन्ते, ततश्च सङ्घयेयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यं संवृतयोनयश्चैते, साच योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनञ्च शीतोष्णोभयभेदातुविविधैव, एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति । प्ररूपणानन्तरं परिमाणद्वारमाह नि. [ १०९ ] आउस्सवि दाराई ताई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्येय ॥ जे बायरपजत्ता पयरस्त असंखभागमित्ता ते । सेसा तिनिवि रासी वीसुं लोगा असंखिज्जा ।। वृ. ये बादराप्कायपर्याप्तकास्ते संवर्त्तितलोकप्रतरासङ्घयेयभागप्रदेशराशिपरिमाणाः, शेषास्तु त्रयोऽपि राशयो 'विष्वक्' पृथगसङ्घयेययलोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायम् - बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असङ्घयेयगुणाः बादरपृथ्वीकायापर्याप्तकेभ्यो बादराप्कायिकापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिकाः । सूक्ष्मपृथ्वीकायपर्याप्तकेभ्यः सूक्ष्माप्कायपर्याप्ता विशेषाधिकाः ॥ Jain Education International साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाह For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy