SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आचारात सूत्रम् १/-/१/२/१७ २ अप्पेगे अच्छिमध्ये २ अप्पेगे भमुहममे २ अप्पेगे निडालमध्ये २ अप्पेगे सीसमध्ये २ अप्पेगे संपसारए अप्पेगे उद्दवए, इत्थं सत्यं समारंभमाणस्स इच्चेते आरंभा अपरिष्णाता भवंति । वृ. 'तं से अहियाए तं से अबोहीए' तत् पृथिवीकायसमारम्भणं 'से' तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रं समारभमाणस्यागामिनी काले अहिताय भवति, तदेव चाबोधिलभायेति, न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेनाऽऽयत्यां योगो भवतीत्युक्तं भवति, यः पुनर्भगवतः सकाशात्तच्छिष्यानगारिभ्यो वा विज्ञाय पृथ्वीसमारम्भं पापात्मकं भावयति स एवं मन्यत इत्याह- 'सेत' मित्यादि, 'सः' ज्ञातपृथिवीजीवत्वेन विदितपरमार्थः 'तं' पृथ्वीशस्त्रसमारम्भमहितं सम्यगवबुध्यमानः 'आदानीयं' ग्राह्यं सम्यग्दर्शनादि सम्यगुत्थाय- अभ्युपगम्य, केन प्रत्ययेनेति दर्शयति- 'श्रुत्वा' अवगम्य साक्षाद्भगवतोऽ नगाराणां वा समीपे ततः 'इह' मनुष्यजन्मनि 'एकेषां' प्रतिबुद्धतत्त्वानां साधूनां ज्ञातं भवतीति, यत् ज्ञातं भवति तद्दर्शयितुमाह'एसे' त्यादि, एष पृथ्वी शस्त्रसमारम्भः खलुरवधारणे कारणे कार्योपचारं कृत्वा 'नड्वलोदकं पादरोग' इति न्यायेनैष एव ग्रन्थः - अष्टप्रकारकर्मबन्धः, तथैष एव पृथ्वीसमारम्भो मोहहेतुत्वान्मोह:कर्मबन्ध - विशेषो दर्शनचारित्रभेदोऽष्टाविंशतिविधः, तथैव एव मरणहेतुत्वान्मारःआयुष्ककर्मक्षयलक्षणः, तथैष एव नरकहेतुत्वान्नरकः- सीमन्तकादिर्भूभागः, अनेन चासातावेदनीयमुपात्तं भवति, कथं पुनरेकप्राणिव्यापादनप्रवृत्तावष्टविधकर्मबन्धं करोतीति, उच्यते मार्यमाणजन्तुज्ञानावरोधित्वात् ज्ञानावरणीय बध्नात्येवमन्यतराप्यायोजनीयमिति, अन्यदपि तेषां ज्ञातं भवतीति दर्शयितुमाह ૪૪ ‘इच्चत्यमित्यादि, ‘इत्येवमर्थम्' आहारभूषणोपकरणार्थं तथा परिवन्दनमाननपूजनार्थं दुःखप्रतिघाताहेतुं च 'गृद्धो' मूर्छितो 'लोकः' प्राणिगणः, एवंविधेऽप्यतिदुरितनिचयविपाकफले पृथ्वी कायसमारम्मे अज्ञानवशान्मूर्च्छितस्तवेतद्विधत्त इति दर्शयति- 'यद्' यस्माद् 'इमं' पृथ्वीकायं विरूपरूपैः शस्त्रैः पृथ्वीकर्म समारभमाणो हिनस्ति, पृथिवीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादेः पृथिव्या वा शस्त्रं हलकुद्दालादि तत्समारभते, पृथिवीशस्त्रं समारभमाणश्चान्याननेकरूपान् 'प्राणिनो' द्वीन्द्रियादीन्विविधं हिनस्तीति । स्यादारेका, ये हि न पश्यन्ति न श्रृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रहीतव्यम् ? अमुष्यार्थस्य प्रसिद्धये दृष्टान्तमाह-- 'से बेभी' त्यादि, सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि अथवा 'से' इति तच्छब्दार्थे वर्त्तते, यत्त्वया पृष्टस्तदहं ब्रवीमि अपिशब्दो यथानामशब्दार्थे, यथा नाम कश्चिजात्यन्धो बधिरो मूकः कुष्ठी पङ्गुः अनभिनिर्वृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशां प्राप्तः, तमेवंविधमन्धा - दिगुणोपेतं कश्चित्कुन्ताग्रेण 'अब्मे' इति आभिन्द्यात् तथाऽपरः कश्चिदन्धमाच्छिन्द्यात्, स च भिद्यमनाद्यवस्थायां न पश्यति न श्रृणोति मूकत्वान्नोचै रारटीति, किमेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुम् ?, एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धवधिरमूकपङ्वादिगुणोपेतपुरुषवदितियथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानां 'अयेगे पायमव्ये' इति यथा नाम कश्चित्पादमा. भिन्धादाच्छिन्द्याद्वेत्येवं गुल्फादिष्वप्यायोजनीयमिति दर्शयति, एवं जनाजानूरुकटीनाभ्युदरपार्श्वपृष्ठउरोहृदयस्तनस्कन्धबाहुहस्ताङ्गुलिनखग्रीवाह नुकौष्ठदन्तजिह्वातालुगलगण्ड Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy