________________
३८६
आचाराङ्ग सूत्रम् २/१/३/१/४४७ अह पुणेवंजाणिजा चत्तारिमासा० कप्पे परिवुसिए, अंतरासेमग्गे अप्पंडाजाव ससंताणगा वहवे जत्थ समण उवागमिस्संति, सेवं नचा तओ संजयामेव० दूइजिज ॥
वृ अथैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृट्कालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचातुर्मासिकमतिक्रान्तमित्यर्थ, तत्रोत्सर्गतोयदिन वृष्टिस्ततःप्रतिपद्येवान्यत्र गत्वापारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु दशसु वा दिनेषु 'पर्युषितेषु' गतेषु गमनं विधेयं ।
तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैवस्थेयं, तत ऊध्र्वं यथा तथाऽस्तु न स्थेयमिति ।। एवमेताद्विपर्ययसूत्रमप्युक्तार्थम् ।। इदानीं मान्यतनामधिकृत्याह
मू. (४४८) से भिक्खू वा० गामाणुगामं दूइजमाणे पुरओ जुगमायाए पेहमाणे दखूण तसे पाणे उद्धटु पादं रीइज्जा साहट्ट पायं रीइजा वितिरिच्छं वा कटु पायं रीइजा, सइ परक्कमे संजयामेव परिक्वमिज्जा नो उज्जुयंगच्छिज्जा, तओ संजयामेव गामाणुगाम दूइजिज्जा ।
से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाणाणि वा बी० हरि० उदए वा मट्टिआवा अविद्धत्थे सइ परक्कमे जाव नो उज्जुयंगच्छिज्जा, तओ संजया० गामा० दूइजिजा ।।
वृ. स भिक्षुर्यावद् ग्रामान्तरं गच्छन् ‘पुरतः' अग्रतः 'युगमात्रं' चतुर्हस्तप्रमाणं शकटोर्द्धिसंस्थितंभूभागं पश्यन्गच्छेत्, तत्रच पथि दृष्ट्वा त्रसान्प्राणिनः' पतङ्गादीन् 'उद्धटुत्ति पादमुध्यत्त्याग्रतलेन पादपातप्रदेश वाऽतिक्रम्य गच्छेत्, एवं संहृत्य-शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्य वाऽग्रभागं पार्णिकया गच्छेत्, तथा तिरश्चीनं वा पादं कृत्वा गच्छेत्, अयं चान्यमार्गाभावे विधि, सति त्वन्यस्मिन् पराक्रमे-गमनामार्गे संयतः संस्तेनैव 'पराक्रमेत्' गच्चेत् न ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयमिति।
से इत्यादि, उत्तानार्थम् ।। अपि च
मू. (४४९) से भिक्खू वा० गाम० दूइजमाणे अंतरा से विरूवरूवाणि पचिंतिगाणि दसुगाययाणि मिलक्खूणि अणायरियाणि दुसन्नपाणि दुप्पन्नवणिज्जाणि अकालपडिबोहीणि अकालपरिभोईणि सइ लाढे विहाराए संथरमाणेहिं जाणवएहिं नो विहाखडियाए पवजिज्ञा गमणाए, केवली बूया आयाणमेयं, तेणं बाला अयं तेणे अयं उवचरए अयं ततो आगएत्तिक१
तंभिक्खं अक्कोसिज वा जाव उद्दविज वा वत्थं प० कं० पाय० अच्छिदिन वा भिंदिन वा अवहरिज वा परिहविज वा, अह भिक्खूणं पु० जंतहप्पगाराइं विरू० पश्चंतियाणि दस्सुगा० जाव विहारवत्तियाए नो पवञ्जिज वा गमणाए तओ संजथा गा० दू० ॥
वृ. स भिक्षुामान्तरं गच्छन् यत्पुनरेवं जानयात्, तद्यथा-'अन्तरा' ग्रामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि प्रात्यन्तिकानि दस्यूनां-चौराणामायतनानि-स्थानानि 'मिलक्खूणि'त्ति बर्बरशवरपुलिन्द्रादिम्लेच्छप्रधानानि 'अनार्याणि' अर्द्धषड्विशजनपदबाह्यानि 'दुःसज्ज्ञाप्यानि दुःखेनार्यसज्ज्ञाज्ञाप्यन्ते, तथा 'दुष्प्रज्ञाप्यानि' दुःखेन धर्मसज्ज्ञोपदेशेनानार्यसङ्कल्पानिवर्तयन्ते अकालप्रतिबोधीनि' न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमनसम्भवात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु .
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only