SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - २, उद्देशक : २ इहानन्तरोद्देश के सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषविशेषप्रतिपादनायाह- भू. (४०६) गाहावई नामेगे सुइसमायारा भवंति, सेभिक्खू य असिणाणए मोयसमायारे ते तग्गंधे दुग्गंधे पडिकूले पडिलोमे यावि भवइ, जं पुव्वं कम्मं तं पच्छ कम्मं जं पच्छा कम्मं तं पुरे कम्मं तं भिक्खु पडियाए वट्टमाणा करिज्जा वा नो करिजा वा, अह भिक्खूणं पु० जं तहप्पगारे उ० नो ठाणं० ३७३ वृ. 'एके' केचन गृहपतयः शुचि समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति भोगिनो वा-चन्दनागुरुकुङ्कुमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवशात् 'मोया'त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां 'प्रतिकूलः' नानुकूलोऽनभिमतः, तथा 'प्रतिलोमः' तद्गन्धाद्विपरीतगन्धो भवति, एकार्थिकौ वैतायतिशयानभिमतत्त्वख्यापनार्थावुपात्ताविति, तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमी स्नानादिकं पूर्वं कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्वं कुर्वन्ति । एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधात्प्राप्तकालमपि भोजनादिकं न कुर्यु, ततश्चान्तरायमनः पीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्वं कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुर्युर्विपरीतं वा कालातिक्रमेण कुर्युर्न कुर्युर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यम् इति ।। किञ्च मू. (४०७) आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं सं०, इह खलु गाहावइस्स अप्पणो सयट्ठा विरुवरुवे भोयणजाए उवक्खडिए सिया, अह पच्छा भिक्खुपडियाए असणं वा ४ उवक्खडिज वा उवकरिज्ज वा, तं च भिक्खू अभिकंखिज्जा भुक्त्तए वा पायए वा वियट्टित्तए वा, अह भि० जंनो तह० // वृ. कर्मोपादानमेतद्भिक्षोर्यद्गृहस्थावबद्धे प्रतिश्रये स्थानमति, तद्यथा- 'गाहावइस्स अप्पणी' त्ति, तृतीयार्थे षष्ठी, गृहपतिना आत्मना स्वार्थं 'विरूपरूपः ' नानाप्रकार आहारः संस्कृतः स्यात्, ‘अथ' अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपाकं वा कुर्यात्, तदुपकरणादि वा ढौकयेत्, तं च तथाभूतमाहारं साधुर्भीक्तुं पातुंवाऽभिकाङ्क्षत्, 'विअट्टित्तएव 'त्ति तत्रैवाहारगृद्धया विवर्त्तितुम्आसितुमाकाङ्गेत्, शेषं पूर्ववदिति । मू. (४०८ ) आयाणमेयं भिक्खुस्स गाहावइणा सद्धिं संव० इह खलु गाहावइस्स अप्पणी सट्टाए विरूवरूवाई दारूयाइं भिन्नपुव्वाइं भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाई दारूयाई भिंदिज वा किणिज वा पामिच्चेज वा दारूणा वा दारूपरिणामं कट्टु अगनिकायं उ० प०, तत्थ भिक्खू अभिकंखिज्जा आयावित्तए वा पयावित्तए वा वियट्टित्तए वा, अह भिक्खू० जं नो तहप्पगारे० ॥ वृ. एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति । किञ्च मू. (४०९) से भिक्खू वा० उच्चारपासवणेण उव्वाहिज्रमाणे राओ वा वियाले वा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy