________________
श्रुतस्कन्धः - २, चूडा-१,
अध्ययनं - १, उद्देशक ५
३४१७
णं परिमाएहवा णं तं चेगइओ पडिगाहित्ता तुसिणीओ उवेहिज्जा, अवियाई एवं मममेव सिया, माइट्ठाणं संफासे, नो एवं करिज्जा, से तमायाए तत्थ गच्छिज्जा २ से पुव्वामेव आलोइज्जा
आउसंतो समणा ! इमे मे असणे वा ४ सव्वजणाए निसिङ्केतं भुंजह वा णं जाव परिभाएह वाणं, सेणमेवं परो वइज्जा आउसंतों समणा ! तुमं चेव णं परिभाएहि, से तत्थ परिभाएमाणे नो अप्पणो खद्धं २ डायं २ ऊसढं २ रसियं २ मणुन्नं २ निद्धं २ लुक्खं २, से तत्थ अमुच्छए अगिद्धे अगढिए अणज्झोववन्ने बहुसममेव परिभाइज्जा, सेणं परिभाएमाणं परो वइज्जा आउसंतो समणा ! मा णं तुमं परिमाएहि सव्वे वेगइआ ठिया उ भुक्खामो वा पाहामो वा, से तत्थ भुंजमाणे नो अप्पणा खद्धं खद्धं जाव लुक्खं, से तत्थ अमुच्छि ए४ बहुसममेव भुंजिज्जा वा पाइजा वा ॥
वृ. स भिक्षुग्रमादौ भिक्षार्थं प्रविष्टो यदि पुनरेवं विजानीयाद् यथाऽत्र गृहे श्रमणादि कश्चित्प्रविष्टः, तं च पूर्वप्रविष्टं प्रेक्ष्य दातृप्रतिग्राहकासमाधान्तरायभयान्न तदालोके तिष्ठेत्, नापि तन्निर्गमद्वारं प्रति दातृप्रतिग्राहकासमाधानान्तरायभयात्, किन्तु स भिक्षुस्तं श्रमणादिकं भिक्षार्थमुपस्थितम् 'आदाय' अवगम्यैकान्तमपक्रामेत्, अपक्रम्य चान्येषां चानापातेविजनेऽसंलोके च संतिष्ठेत्, तत्र च तिष्ठतः स गृहस्थः 'से' तस्य भिक्षोश्चतुर्विधमप्याहारमाहृत्य दद्यात्, प्रयच्छंश्चैतद्ब्रू- याद्- यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभाजयितुमलमतो हे आयुष्मन्तः ! श्रमणाः ! अयमाहारश्चतुर्विधोऽपि 'मे' युष्मभ्यं सर्वजनार्थ मया निसृष्टो-दत्तस्तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र वा भुङगध्वं परिभजध्वं वा विभज्य वा गृह्णीतेयर्थ, तदेवंविध आहार उत्सर्गतो न ग्राह्यः, दुर्भिक्षे वाऽध्वाननिर्गतादौ वा द्वितीयपदे कारणे सति गृह्णीयाद् गृहीत्वा च नैवं कुर्याद् यथा तमाहारं गृहीत्वा तूष्णीको गच्छन्नैवमुठप्रेक्षेतयथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्म- मैवैकस्य स्याद्, एवं च मातृस्थानं संस्पृशेद, अतो नैवं कुर्यादिति, यथा च कुर्यात्तथा च दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्ति के गच्छेद्, गत्वा च सः 'पूर्वमेव' आदावेव तेषामाहारम् 'आलोकयेत्' दर्शयेत्, इदं च ब्रूयादयथा भो आयुष्मन्तः ! श्रमणादयः ! अयमशनादिक आहारो युष्माकं सर्वजनार्थमविभक्त एव गृहस्थेन निसृष्टथे - दत्तस्तद्यूयमेकत्र भूङध्वं विभजध्वं वा, 'से' अथैनं साधुमेवं ब्रुवाणं कश्चिच्छ्रमणादिरेवं ब्रूयाद्-यथा भो आयुष्मनम् ! श्रमण ! त्वमेवास्माकं परिभाजय, नैवं तावत्कुर्यात् अथ सति कारणे कुर्यात् तदाऽनेन विधिनेति दर्शयति-स भिक्षुर्विभाजयन्त्रात्मनः 'खद्धं १' प्रचुरं २ 'डाग'ति शाकम् 'ऊसढं 'ति उच्छ्रितं वर्णादिगुणोपेतं, शेषं सुगमं यावद्र्क्षमिति न गृह्णीयादिति अपि च- 'सः' भिक्षु 'तत्र' आहारेऽपूर्छितोऽगृध्येऽ नाछतोऽनध्युपपन्नइति एतान्यादरख्यापनार्थमेकार्थिकान्युपात्तानि कथञ्चिद्भेदाद्वा व्याख्यातव्या नीति, 'बहुसम' मिति सर्वमत्र समं किञ्चित्सिक्थादिना यद्यधिकं भवेदिति, तदेवं प्रभूतसमं परिभाजयेत्, तं च साधुं परिभाजयन्तं कश्चिदेवं ब्रूयाद,
यथा - आयुष्मन् ! श्रमण ! मा त्वं परिभाजय, किन्तु सर्व एव चैकत्र व्यवस्थिता वयं भोक्ष्यामहे पास्यामो वा, तत्र परतीर्थिकैः सार्द्धं न भोक्तव्यं, स्वयूथ्यैश्च पार्श्वस्थादिभि सह सम्भोगिकैः सहौधा लोचनां दत्वा भुञ्जानानामयं विधि, तद्यथा नो आत्मन इत्यादि, सुगममिति ॥ इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं, साम्प्रतं तठप्रवेशप्रतिषेधार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org