SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३३२ आचाराङ्ग सूत्रम् २/१/१/१/३३८ समिक्षुबह 'विचारभूमिं ' सज्ज्ञाञाव्युत्सर्गभूमिं तथा 'विहारभूमि' स्वाध्यायभूमिं तैरन्यतीर्थिकादिभिः सह दोषसम्भवान्न प्रविशेदिति सम्बन्धः, तथाहि - विचारभूमौ प्रासुकोदकस्वच्छास्वच्छबह्वल्पनिर्लेपनकृतोपधातसद्भावाद, विहारभूमौ वा सिद्धान्तालापकविकत्थनमयात्सेहाद्यसहिष्णुकलहसम्भवाञ्च साधुस्तां तैः सह न प्रविशेन्नापि ततो निष्क्रामेदिति । तथा-स भिक्षुग्रमाद्ग्रामो ग्रामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि 'दूइजमाणो' त्ति गच्छन्नेभिरन्यतीर्थिकादिभि सह दोषसम्भवान्न गच्छेत्, तथाहि कायिक्यादिनिरोधे सत्यात्मविराधना, व्युत्सर्गे च प्रासुकाप्रासुकग्रहणादावुपधातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः सेहादिविप्रतारणादिदोषश्चेति । साम्प्रतं तद्दानप्रतिषेधार्थमाह मू. (३३९) से भिक्खू वाभिक्खूणी वा जाव पविट्ठेसमाणेनो अन्नउत्थियस्स वा गारत्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वा खाइमं वा साइमं वा दिजा वा अनुपइज्जा वा ॥ वृ स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नुपलक्षणत्वादुपाश्रयस्थो वा तेभ्योडन्यतीर्थिकादिभ्यो दोषसम्मवादशनादिकं ४ न दद्यात् स्वतो न प्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि तेभ्यो दीयमानं दृष्ट्वा लोकोऽभिमन्यते एते वा तद्यानामपि दक्षिणार्हा, अपि चतदुपष्टम्मादसंयमप्रवर्त्तनादयो दोषो जायन्त इति । पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधमधिकृत्याह मू. (३४०) से भिक्खू वा० जाव समाणे असणं वा ४ अस्सिपडियाए एवं साहम्मियं समुहिस्स पाणाई भूयाइं जीवाई सत्ताई समारब्म समुद्दिस्स कीयं पाभिचं अच्छिन्नं अणिसङ्कं अभिहडं आह चेएइ, तं तहष्पगारं असणं वा ४ पुरिसंतरकडं वा अपुरिसंतरकडं वा बहिया नीडं वा अनीहडंवा अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तंवा अपरिभुत्तं वा आसेवियं वा अणासेवियं वा अफासुयं जाव नो पडिग्गाहिज्जा, एवं बहवे साहम्मिया एवं साहम्मिणि बहवे साहम्मिणीओ समुद्दिस्स चत्तारि आलावगा भाणियव्वा ॥ वृ. स- भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नेवंभूतमाहारजातं नो प्रतिगृहीयादिति सम्बन्धः, 'अस्संपडियाए 'त्ति, न विद्यते स्वं द्रव्यमस्य सोऽयमस्वो-निर्ग्रन्थ इत्यर्थ, तव्प्रतिज्ञया कश्चिद्गृहस्थः प्रकृतिभद्रक एक 'साधर्मिकं साधुं 'समुद्दिश्य' अस्वोऽयमित्यभिसन्धाय 'प्राणिनो भूतान जीवाः सत्त्वाश्च' एतेषां किञ्चिद्भेदाभेदः, तान् समारभ्येत्यनेन मध्यग्रहणात्संरम्भसभारम्भारम्भा गृहीताः, एतेषां च स्वरूपमिदम् । ॥१॥ "संकप्पो संरंभो परियावकरी भवे समारंभो । आरंभ उद्दवओ सुद्धाणं तु सव्वेसिं" इत्येवं समारम्भादि 'समुद्दिश्य' अधिकृत्याधाकर्म कुर्यादिति, अनेन सर्वाऽविशुद्धिकोटिर्गृहीता, तथा 'क्रीतं' मूल्यगृहीतं 'पामिञ्च' उच्छिन्नकम् 'आच्छेद्यं' परस्माद्ब्अलादाच्छिन्नम् 'अणिसिद्धं'ति 'अनिसृष्टं' तत्स्वामिनाडजनुत्सङ्कलितं चोल्लकादि 'अभ्याहृतं' गृहस्थेनानीतं, तदेवंभूतं क्रीताद्याहृत्य 'चेएइ' त्ति ददाति, अनेनापि समस्ता विशुद्धिकोटिर्गृहीता, 'तद्' आहारजातं चतुर्विधमपि 'तथाप्रकारम्' आधाकर्मादिदोषदुष्टंयोददाति तस्मात्पुरुषादपरः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy