SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशकः३ २८३ ग्लानतेन्द्रियाणामिति प्रतिपादितं । विदितवेधश्च परीषहपीडितोऽपि किं कुर्यादित्याह - मू. (२२२) ओए दयं दयइ, जे संनिहाणसत्थस्सखेयन्ने से भिक्खू कालने बलन्ने मायने खणने वियणने परिग्गहं अममायमाणे कालेणुट्टाइअपडिन्ने दुहओ छइत्तानियाई। घृ. 'ओजः' एको रागादिरहितः सन् सत्यपि क्षुत्पिसादिपरीषहे 'दयामेव दयते' कृपा पालयति, न परीषहैः तर्जितो दयां खण्डयतीत्यर्थः। कः पुनर्दयां पालयतीत्याह-यो हि लघुका सम्यनिधीयते नारकादिगतिषु येन तत्सन्निधानकर्मतस्य स्वरूपनिरूपकंशास्त्रं तस्य खेदज्ञोनिपुणो, यदिवासनिधानस्य कर्मणःशस्त्र-संयमःसनिधानशस्त्रंतस्य खेदज्ञः-सम्यक्संयमस्य वेत्ता, यश्च संयमविधिज्ञः स भिक्षुः। ___ कालज्ञः-उचितानुचितावसरज्ञः, एतानि च सूत्राणि लोकविजयपञ्चमोद्देशकव्याख्यानुसारेण नेतव्यानीति, तथा वलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहममत्वेन अचरन् कालेनोस्थायीअप्रतिज्ञः उभयतश्चेत्ता, सचैवम्भूताः संयमानुष्ठाने निश्चयेन याति निर्यातीति ।। तस्य च संयमानुष्ठाने परिव्रजतो यत्स्यात्तदाह - मू. (२२३) तंभिक्खुंसीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावईबूया-आउसंतो समणा! नोखलु तेगामधम्माउव्वाहंति?,आउसंतो गाहावई!नोखलु मम गामधम्माउव्वाहंति, सीयफासंचनो खलु अहं संचाएमिअहियासित्तए, नोखलु मेकप्पइअगणिकायं उज्जालितए वा कायंआयावित्तए वापयावित्तए वा अन्नेसिवावयणाओ, सियास एवं वयंतस्सपरो अगणिकायं उज्जालित्ता पज्जालित्ता कायं आयाविज वा पयाविज वा, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेवणाए -तिबेमि। वृ. 'तम्' अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चनं भिक्षणशीलं भिक्षुमतिक्रान्तसोष्मयौवनावस्थं सम्यकत्वक्राणाभावतयाशीतस्पर्शपरिवेपमानगात्रंउपसक्रम्य-आसन्नतामेत्य गृहपतिः-ऐश्वर्योष्णानुगतोमृगनाम्युनविद्धकश्मीरजबहलरसानुलिप्तदेहोमीनमदागुरुघनसारधूपितरल्लिकाच्छादितवपुःप्रौढसीमन्तिनीसन्दोहपरिवृत्तोवार्तीभूतशीतस्पर्शानुभवः सन् किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदोमत्सीमन्तिनीरवलोक्यसात्विकमावोपेतः कम्पतेउतशीतेनेत्यवं संशयानो ब्रूयात्-भोआयुष्मन्! श्रमण! कुलीनतामात्मन आविर्भावयन्प्रतिषेधद्वारेण प्रश्नयतिनोभवन्तं ग्रामधाः -विषयाउत्-प्राबल्येन बाधन्ते?,एवंगृहपतिनोक्तेविदिताभिप्रायः साधुराहअस्य हिगृहपतेरात्मसंचित्त्याऽङ्गनावलोकनाऽऽविष्कृतभावस्यासत्याशङ्काऽभूदुअतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्बभाषे-आयुष्मन् ! गृहपते! __'नो खलु' नैव ग्रामधर्मा मामुद्बधन्ते, यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्मितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुं, एवमुक्तः सन् भक्तिकरुणासाक्षिप्तहृदयोब्रूयात्-सुप्रज्वलितमाशुशुक्षणि किमितिनसेवसे?, महामुनिराहभो गृहपते! न खलु मे कल्पतेऽग्निकायं मनाग ज्वालयितुं (उज्जवालयितु) प्रकर्षेण ज्वालयितुं प्रज्वालयितुं स्वतो ज्वलितादौ 'कार्य' शरीरमीषत् तापयितुमातापयितुं वा प्रकर्षेण तापयितुं प्रतापयितुंवा, अन्येषांवा वचनात् ममैत्कर्तुन कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुंन कल्पते ममेति ।तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy