________________
१८७
श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशक: यथा भगवान् जगाद्, यथा-सर्वे प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम्, एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्भप्रबन्धोपरते प्रकर्षणोच्यते प्रोच्यते इति, नतुयथाअन्यत्र नहिंस्यात्सर्वभूतानी' त्यभिधायान्यत्रवाक्येयज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ॥तदेवं सम्यकत्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तद्दर्शयितुमाह
मू. (१४०)तं आइतुन निहे न निक्खिवे जाणितु धम्मं जहा तहा, दिठेहिं निव्वेयं गच्छिज्जा, नो लोगस्सेसणं चरे।
वृ. 'ततू' तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो 'ननिहे'ति नगोपयेत्, तथाविधसंसर्गा दिनिमित्तोत्थपितमिथ्यात्वोऽपिजीवसामर्थ्यगुणात्र त्यजेदपि, यथा वाशैवशाक्यादीनांगृहीत्वा व्रतानिपुनरपिव्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्योप्रव्रजनं, एवं गुवदिः सकाशादवाप्य सम्यग्दर्शनं 'न निक्षिपेत् न त्यजेत, किं कृत्वा ?___यथा तथाऽवस्थितं धर्म ज्ञात्वा श्रुतचारित्रात्मकमवगम्य, वस्तुनां वा धर्मस्वभावमवबुध्येति तदवगमे तुकिंचापरं कुर्यादत्याह-'दिटेहि' इत्यादि, रिष्टानिष्टरूपैर्निर्वेद गच्छेद्, विरागंकुर्यादित्यर्थः, तथाहि शब्दैः श्रुतैः रसैरास्वादितैर्गन्धैराघ्रातःस्पर्शः स्पृष्टैः सद्भिरेवं भावयेत्यथा शुभेतरतापरिणामवशाद्भवतीत्यतः कस्तेषुरागो द्वेषोवेति। किंच-'नो लोयस्स' इत्यादि, 'लोकस्य' प्राणिगणस्यैषणा-अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिस्तां 'नचरेत् न विदध्यात्।यस्य चैषा लोकैषणा नास्तितस्यान्याप्यप्रशस्ता मतिनास्तीति दर्शयति
मू. (१४१) जस्स नस्थिइमा जाई अण्णा तस्स कओ सिया?, दिळं सुयं मयंविण्णायं जंएवं परिकहिजइ, समेमाणा पलेमाणा पुणो पुणो जाइंपकप्पंति।
वृ.यस्यमुमुक्षोरेषाज्ञातिः-लोकैषणाबुद्धिः 'नास्ति' नविद्यते, तस्यान्यासावद्यारम्भप्रवृत्तिः कुतः स्यात् ?, इदमुक्तं भवति-भोगेच्छारूपां लोकैषणां परिजिहीर्षोर्नव सावद्यानुष्ठान प्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवा 'इमा' अनन्तरोक्तत्वात् प्रत्यक्षा सम्यकत्वज्ञातिः प्राणिनो न हन्तव्या इति वा यस्य न विद्यते तस्यान्या अविवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठानपरिहारद्वारेण कुतः स्यात् ? ।शिष्यमतिस्थैर्यार्थमाह
____ "दिट्टमित्यादि, यदेतन्मयापरिकथ्यते तत्सर्वज्ञैः केवलज्ञानावलोकेनदृष्टं, ततःशुश्रूषुभिः श्रुतं,लघुकर्मणां भव्यानां मतं, ज्ञानावरणीयश्रयोपशमाद्विशेषेण ज्ञातं विज्ञातम्,अतो भवताऽपि सम्यकत्वादिके मत्कथिते यत्नवता भवितव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः ते कथम्भूता भवेयुरित्याह-'समेमाणा' इत्यादि तस्मिन्नेव मनुष्यादिजन्मनि 'शाम्यन्तो' गायनात्यर्थमासेवां कुर्वन्तः तथा प्रलीयमानाः' मनोज्ञेन्द्रियार्थेषु पौनःपुन्येनैकेन्द्रियद्वीन्द्रियादिकांजातिंप्रकल्पयन्ति, संसाराविच्छित्तिविदघतीत्यर्थः ।यद्येवमविदितवेद्याः साम्प्रतेक्षिणोयथाजन्मकृतरतयइन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकृतसन्धाना जन्तवस्ततः किं कर्त्तव्यमित्याह
मू. (१४२) अहो अ राओ य जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्ते सया परिमिजासि-त्तिबेमि ।।
वृ. अहश्च रात्रिं च यतमान एव यत्नवानेव मोक्षाध्वनि 'धीरः' परीषहोपसर्गाक्षोभ्यः 'सदा सर्वकालम् 'आगतं' स्वीकृतं प्रज्ञानं सदसद्विवेको यस्य स तथा, 'प्रमत्तान्' असंयतान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org