________________
श्रुतस्कन्धः - १, अध्ययनं - ४, उद्देशक:
१८५ तत्त्वार्थश्रद्धानं, तत्त्वंचोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानस्तीर्थकृमिर्यदभाषि, तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति
अध्ययनं-४ - उद्देशकः १:मू. (१३९) से बेमि जे अईया जे य पडुपन्ना आगमिस्सा अरहंता भगवंतो ते सब्वे एवमाइक्खन्ति एवं भासंति एवं पन्नविति एवं परूविंति-सब्बे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अज्जावेयव्वा न परिधित्तव्वान परि प्वेयव्वा न उद्दवेयव्वा,
एस धम्मे सुद्धे निइए समिञ्च लोयं खेयण्णेहिं पवेइए, तंजहा-उट्ठिएसु वा अनुट्ठिएसु वा ज्वट्ठिएसुवा अनुवट्ठिएसु वा उवरयदंडेसु वा अनवरयदंडेसु वा सोवहिएसु वा अणोवहिएसुवा संजोगरएसु वा असंजोगरएसुवा, तचं चेयंतहा चेयं अस्सिं चेयं पवुच्चइ ॥
वृ. गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति, यदिवा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छ्रद्धाने सम्यकत्वं भवति तदहं तत्वं ब्रवीमीति, येऽतीताः-अतिक्रान्तायेचप्रत्युत्पन्नाः-वर्तमानकालभाविनो ये चागामिनःतएवंप्ररूपयन्तीति सम्बन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिक्रान्ता अनागता अप्यनन्ता आगामिकालस्यानन्तत्वात्तेषां च सर्वदैव भावादिति, वर्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्रसम्मविनः सप्तत्युत्तरशतं, तच्चैवं-- पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् द्वात्रिंशत् पञ्चस्वपिभरतेषुपञ्चैवमैरावतेष्वपीति, तत्रद्वात्रिशत्पञ्चभिर्गुणिताःषष्टयुत्तरशतं (१६०) भरतैरावतदशप्रक्षेपेण सप्तत्यधिकंशतमिति, जघन्यतस्तुविंशतिः, साचैवं-पञ्चस्वपिमहाविदेहेषु महाविदेहान्तर्महानधुभयतटसद्मावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिभरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते-मेरोः पूर्वापरविदेहयोरेकैकसद्मावान्महाविदेहे द्वावेव, ततः पञ्चस्वपि दशैवेति, तथा च ते आहुः-- ॥१॥ “सत्तरसयमुक्कोसं इअरे दस समयखेत्तजिणमाणं।
चोत्तीस पढमदीदे अनंतरऽद्ध य ते दुगुणा" के इमे ? -'अर्हन्तो' अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याधुपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते यदुत्तरत्र वक्ष्यते, वर्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम्-एवमाचचक्षिरे एवमाख्यास्यन्ति, एवंसामान्यतः सदेवमनुजायां परिषदिअर्द्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपनोदायान्तेवासिनो जीवाजीवासवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्तिप्रज्ञापयन्ति, एवंसम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः स्वपरभावेन सदसती तत्त्वं सामान्यविशेषात्मकमित्यादिना प्रकारेण प्ररूपयन्ति, एकार्थिकानि वैतानीति, किंतदेवमाचक्षते इति दर्शयति___ यथा 'सर्वे प्राणाः' सर्व एव पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छासनिश्वासायुष्कलक्षणप्राणधारणात् प्राणाः, तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org