________________
श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशकः१
१६५
तद्यथा-मनुजगति १ पञ्चेन्द्रियजाति २ त्रस ३ बादर ४ पर्याप्तक ५ सुभगादेय ६-७ यशःकीर्ति ८ तीर्थकररूपाः ९, एता एव शैलेश्यन्त्यसमये सत्तां बिभ्रति, शेषास्तु एकसप्ततिः सप्तषष्टिा द्विचरमसमयेक्षयमुपयान्तिएता एव नवअतीर्थकरकेवलिनस्स्तीर्थकरनामरहिता अटी भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्मतास्थानमिति।
सामान्येन गोत्रस्य द्वेसत्कर्मातास्थाने, तद्यथा- उच्चनीचगोत्रसद्भावेसत्येकं सत्कर्मातास्थानं, तेजोवायूच्चैर्गोत्रोद्वलने कालंकलीभावावस्थायां नीचैौत्रसत्कर्मतति द्वितीयं, यदिवा अयोगिद्विचरमसमये नीचैर्गोत्रक्षये सत्युच्चैर्गोत्रसत्कर्मता, एवं द्विरूपगोत्रावस्थाने सत्येक सत्कर्मतास्थानमन्यतरगोत्रसद्भावे सति द्वितीयमित्येवं कर्म प्रत्युपेक्ष्य तत्सत्तापगमाय यतिना यतितव्यमिति । किंच
मू. (११४) कम्ममूलं चजं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परित्राय मेहावी, विइत्ता लोगं वंता लोगसन्नं से मेहावी परिमिजासि-तिबेभि ।।
वृ. कर्मणो मूल-कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः, च समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य यक्षण'मिति क्षणुहिंसायां' क्षणनं-हिंसनंयकिमपि प्राण्युपघातकारितत्कर्म्ममूलतया प्रत्युपेक्ष्य परित्यजेत्, पाठान्तरं वा 'कम्मामाहूय जं छणं' य उपादानक्षणोऽस्य कर्मणः तत्क्षणं कहिय-कर्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद, इदमुक्तं भवति-अज्ञानप्रमादादिना यस्मिन्नेव क्षणे कहितुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोर्नवृत्तिं विदध्यादिति, पुनरप्युपदेशदानायाह-'पडिलेहिअ इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्वं 'समादाय गृहीत्वाअन्तहेतुत्वादन्तौ-रागद्वेषौ ताभ्यां सहादृश्यमानः ताभ्यामनपदिश्यमानो वा उत्कर्मतदुपादानं वारागादिकंज्ञपरिज्ञयापरिज्ञाय प्रत्याख्यानपरिज्ञयापरिहरेदिति, रागादिमोहितं लोकंविषयकषायलोकंवाज्ञात्वा वान्त्वाच लोकसंज्ञां' विषयपिपासासंज्ञितांधनायाग्रहग्रहरूपां वा 'स' मेधावी मर्यादाव्यवस्थितः सन् 'पराक्रमेत संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासामरिषवर्ग वाऽष्टप्रकारं वा कविष्टभ्याद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ।
अध्ययनं-३ - उद्देशकः-१ समाप्तः
-: अध्ययन-३, उद्देशकः २:वृ.उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोद्देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषां स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्मू. (११५) जाइं च बुड्ढि च इहउज्ज! पासे, भूएहिं जाणे पडिलेह सायं।
तम्हाऽतिविज्जे परमंति नच्चा, संमत्तदंसी न करेइ पावं ।। वृ. जातिः-प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके संसारे वा अद्यैव कालक्षेपमन्तरेण, जातिंच वृद्धिं च पश्य' अवलोकय, इदमुक्तं भवति-जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, उक्तं च
“जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो। तेन दुक्खेन संतत्तो, न सरइजाइमप्पणो
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org