________________
१५४
आचाराङ्ग सूत्रम् १/-/२/६/१०६ मुतान्यदप्य (स्त्य)स्तीत्याह- ‘से मेहावी'त्यादि, स 'मेधावीबुद्धिमान्यः 'अणोद्घातनस्य खेदज्ञः' अणत्यनेन जन्तुगणश्चतुर्गतिकं संसारमित्यणं कर्म तस्योत्-प्राबल्येन घातनम्-अपनयनं तस्य तत्र वा खेदज्ञो-निपुणः, इह हि कर्मक्षपणोद्यतानां मुमुक्षूणां यः कर्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत्-'जे य' इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशरूपस्य चतुर्विधस्यापिबन्धस्य यःप्रमोक्षः तदुपायो वा तमन्वेष्टुं-मृगयितुंशीलमस्येत्यन्वेषी, यश्चैवम्भूतः सवीरोमेधावी खेदज्ञइतिपूर्वेणसम्बन्धः,अणोद्घातनस्यखेदज्ञइत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृष्टनिधत्तनिकाचितरूपां तदपनयनोपायंचवेत्तीत्येतदभिहितं, अनेनचापनयनानुष्ठानमिति नपुनरुक्तदोषानुषङ्गःप्रसजति
- स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली ?, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणं, केवलिनस्तर्हि का वार्तेति ?, उच्यते-'कुसले' इत्यादि कुशलोऽत्र क्षीणघातिकाशो विवक्षितः, स च तीर्थकृत् सामान्यकेवली वा छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु पुनर्धातिकर्मक्षयानोबद्धोभवोपग्राहिकर्मसद्भावानोमुक्तो, यद्विछद्मस्थएवाभिधीयते-'कुशलः' अवाप्तज्ञानदर्शनचारित्रोमिथ्यात्वद्वादशकषायोपशमसद्भावात् तदुदयवानिवनबद्धोऽदद्यापि तत्सत्कर्मतासद्भावानो मुक्त इति । एवम्भूतश्च कुशलः केवलीछद्मस्थोवायदाचीर्णवानाचरति वा तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति
मू. (१०७) से जं च आरभे जं च नारभे, अनारद्धं च न आरभे, छणं छणं परिन्नाय लोगसन्नं च सव्वसो।।
वृ.'स' कुशलो यदारभतेआरब्धवान्वाअशेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते मिथ्यात्वाविरत्यादिकं संसारकारणं, तदारब्धव्यमारम्भणीयमनारब्धमनारम्भणीयं चेति, संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य चैकान्तेन निराकारयत्वात्, तनिषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तन्निषेधमाह • 'अनारद्धं च' इत्यादि, अनारब्धम्-अनाचीर्णं केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षुारभते-न कुर्यादित्युपदेशो, यच्च मोक्षाङ्गमाचीर्णं तत्कुर्यादित्युक्तं भवति । यत्तद्भगवदनाचीर्ण परिहार्यं तन्नामग्राहमाह - 'छणं' छणं इत्यादि, 'क्षणुहिंसायां क्षणनंक्षणो-हिंसनं कारणे कार्योपचारात्येनयेन प्रकारेण हिंसोत्पद्यते तत्तज्ज्ञापरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद्, यदिवा क्षणः-अवसरः कर्त्तव्यकालस्तं तंज्ञपरिज्ञया ज्ञात्वाऽऽसेवनापरिज्ञयाच आचरेदिति । किं च - 'लोयसन्न' इत्यादि, 'लोकस्य' गृहस्थलोकस्यसंज्ञानसंज्ञा-विषयाभिष्वङ्गजनितसुखेच्छापरिग्रहसंज्ञा वातांचज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत्, कथं ? - सर्वशः सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः, तस्यैवंविधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोंद्धातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्पथव्यवस्थितस्य कुमार्गनिराचिकीर्षोहिंसाधष्टादशपापस्थान-विरतस्यावगतलोकसंज्ञस्य यद्भवति तदर्शयति
मू. (१०८) उद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुने असमियदुक्खे दुक्खी दुक्खाणमेव आवढं अनुपरियट्टइ-त्तिबेमि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org