________________
१४१
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:५
“लभ्यते लम्यते साधु, साधुरेव न लभ्यते।
अलब्धेतपसो बुद्धिलब्धे तुप्राणधारणम्" इत्यादि, तदेवंपिण्डपात्रवस्त्राणामेषणाःप्रतिपादिताः, साम्प्रतंसन्निधिप्रतिषेधं कुर्वन्नाह'बहुपी'त्यादि, 'बहुंपि बहपिलब्ध्वा 'न निहेत्तिन स्थापयेत् नसन्निधिं कुर्यात्, स्तोकंतावन्न सनिधीयतएव, बह्वपिनसन्निदध्यादित्यपिशब्दार्थः, न केवलमाहारसन्निधिनकुर्याद्, अपरमपि वस्त्रपात्रादिकंसंयमोपकरणातिरिक्तंन बिभृयादिति,आह-'परि इत्यादि, परिगृह्यत इतिपरिग्रहोधर्मोपकरणातिरिक्तमुपकरणंतस्मादात्मानमपष्वष्केद्-अपसर्पयेद्, अथवा संयमोपकरणमपि मूर्छया परिग्रहो मवति, मूच्छापरिग्रहः' इतिवचनात्, तत आत्मानं परिग्रहादपसर्पयन्नुपकरणे तुरगवत् मूर्छा न कुर्यात, ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति, तथाहि-आत्मीयोपकारिणि राग उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषो नै दिष्ठौ ताभ्यांच कर्मबन्धः, ततः कथं न परिग्रहो धर्मोपकरणम्?, उक्तंच॥9॥ममाहमिति चैषयावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदितिनप्रशान्त्युन्नयः यशःसुखपिपासितैरयमसावनोंत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते।
नैष दोषः, न हि धर्मोपकरणे ममेदमिति साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः"अविअप्पणोऽविदेहमि, नायरंतिममाइउं", यदिहपरिगृहीतंकर्मबन्धायोपकल्पतेसपरिग्रहो, यत्तु पुनः कर्मनिर्जरणार्थं प्रभवति तत्परिग्रह एवन भवतीति । आह च
मू. (९३) अन्नहा गं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्य कुसले नोवलिंपिज्जासि-तिबेमि॥
वृ. णमिति वाक्यालङ्कारे, अन्यथे'त्यन्येन प्रकारेण पश्यकः सन्परिग्रहं परिहरेत्, यथा हिअविदितपरमार्थागृहस्थाः सुखसाधनायपरिग्रहंपश्यन्तिनतथासाधुः, तथाहिअयमस्याशयःआचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेष मूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं, तेन विना संसारार्णवपारागमनादिति, उक्तंच॥१॥ “साध्यं यथा कथञ्चित् स्वल्पं कार्यं महच्च न तथेति।
प्लवनमृतेन हि शक्यं पारं गन्तुंसमुद्रस्य" अत्रचाहताभासैक्रेटिकैः सहमहान्विवादोऽस्तीत्यतो विवक्षितमर्थं तीर्थकराभिप्रायेणापि सिसाधयिषुराह-एसमग्गे' इत्यादि, धर्मोपकरणंनपरिग्रहायेत्येषः-अनन्तरोक्तोमार्ग:आराद्याताः सहयधर्मेभ्य इत्यार्याः-तीर्थकृतस्तैः 'प्रवेदितः' कथितो, नतुयथा बोटिकैः पुण्डिका तट्टिका लम्बणिकाअश्वावालधिवालादिस्वरुचिविरचितोमार्ग इति, न वायथा मौद्गलिस्वातिपुत्राभ्यां शौद्धोदनिध्वजीकृत्य प्रकाशितः, इत्यनया दिशाअन्येऽपिपरिहार्याइति । इह तुस्वशास्त्रगौरवमुत्पादयितुमार्येः प्रवेदित इत्युक्तम्, अस्मिश्चार्यप्रवेदिते मार्गे प्रयलवता भाव्यमिति, आह च'जहेत्य' इत्यादि, लब्ध्वा कर्मभूमिं मोक्षपादपबीजभूतांच बोधि सर्वसंवरचारित्र च प्राप्य तथा विधेयं तथा 'कुशलो' विदितवेद्यः 'अत्र' अस्मिन्नार्यप्रवेदिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेत् इति । एवंचोपलिम्पनं भवतियदि यथोक्तानुष्ठानविधायित्वं न भवति, सतां चायं पन्था यदुत-यत्स्वयं प्रतिज्ञातं तदन्त्योच्छासंयावद्विधेयमिति, उक्तंच
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org