________________
श्रुतस्कन्धः-१, अध्ययन -२, उद्देशक:५
१३९ मूलकमपिण्डश्चेति १६।तथा दशैषणादोषाः, ते चामी-शङ्कित १ प्रक्षित २ निक्षिप्त ३ पिहित ४ संहृत ५ दायको ६ मिश्रा ७ ऽपरिणत ८ लिप्तो ९ ज्झित १० दोषाः । एषां चोद्गमदोषा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोत्पादिता इति । तथा परसमयज्ञो ग्रीष्ममध्याह्नतीव्रतरतरणिक-रनिकरावलीढगलत्स्वेदबिन्दुकःक्लिनवपुष्कः साधुः केनचिद् धिग्जातिदेश्येनाभिहितः-किमिति भवतां सर्वजनाचीर्णं स्नानं न सम्मतमिति?, स आह-प्रायः सर्वेषामेव यतीनांकामाङ्गत्वाजलस्नानं प्रतिषिद्धं, तथा चार्षम् - ॥१॥ "स्नानं मददर्पकरं, कामाङ्गं प्रथमं स्मृतम्।
तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः॥" इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्ने उत्तरदानकुशलो भवति, तथा ‘भावने' भावःचित्ताभिप्रायो दातुः श्रोतुर्वातंजानातीति भावज्ञः, किंच- 'परिग्गहं अपमायमाणे परिगृह्यत इति परिग्रहः-संयमातिरिक्तमुपकरणादिः तमममीकुर्वन्-अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत्, स एवंविधोभिक्षुःकालज्ञोबलज्ञोमात्रज्ञःक्षेत्रज्ञःखेदज्ञोक्षणज्ञः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह - 'कालानुट्ठाई यद्यस्मिन् काले कर्तव्यं तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी- कालानतिपातकर्तव्योधतो, ननु चास्यार्थस्य 'से भिक्खू कालने' इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति ?, नैष दोषः, तत्र हि ज्ञपरिज्ञैव केवलाऽभिइहिता, कर्त्तव्यकालं जानाति, इह पुनरासेवनापरिज्ञा कर्तव्यकाले कार्य विधत्त इति।
किंच-'अपडिण्णे' नास्यप्रतिज्ञा विद्यते इत्यप्रतिज्ञः, प्रतिज्ञाच कषायोदयादाविरस्ति, तद्यथा-क्रोधोदयात्स्कन्दाचार्येण स्वशिष्ययन्त्रपीलनव्यतिकरमालोक्यसबलवाहनराजधानीसमन्वितपुरोहितोपरिविनाशप्रतिज्ञाऽकारि,तथा मानोदयात्बाहुबलिनाप्रतिज्ञा व्यधायि-कथमहं शिशून्स्वभ्रातूनुत्पत्रनिरावरणज्ञानांश्छद्मस्थःसन्द्रक्ष्यामीति?,तथामायोदयात्मल्लिस्वामिजीवेन यथाऽपरयतिविप्रलम्भनं भवति तथा प्रत्याख्यानपरिज्ञाजगृहे,तथा लोभोदयाच्चाविदितपरमार्थाः साम्प्रतेक्षिणो यत्याभासा मासक्षपणादिका अपि प्रतिज्ञाः कुर्वते, अथवा अप्रतिज्ञः-अनिदानों वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोतीति, अथवा गोचरादौ प्रविष्टः सन्नाहारादिकं ममैवैतद्मविष्यतीत्येवंप्रतिज्ञांनकरोतीत्यप्रतिज्ञो, यदिवास्याद्वादप्रधानत्वान्म-नीन्द्रगमस्यैकपक्षावधारणं प्रतिज्ञा तद्रहितोऽप्रतिज्ञः, तथाहि-मैथुनविषयं विहायान्यत्र न क्वचिन्नियमवती प्रतिज्ञा विधेया, यत उक्तम्॥१॥ "नय किंचि अनुन्नायं पडिसिद्धं वावि जिणवरिदेहिं।
मोत्तुं मेहुणभावं न तं विणा रागदोसेहि ॥२॥ (तथा) "दोसा जेण निरुज्झंति जेण जिज्झंतिपुवकम्माइं।
सो सो मुक्खोवाओ, रोगावत्थासुसमणं व जे जत्तिया उ हेउ भवस्स तेचेव तत्तिया मुक्खे। गणणाइया लोया दुण्हविपुन्ना मवे तुल्ला
॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org