________________
श्रुतस्कन्धः अध्ययनं २, उद्देशक: ५
१३७
तथा 'पुढो पणाए' इत्यादि, पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्थं तथा 'सामासाए' त्ति श्यामा - रजनी तस्यामशनं श्यामाशः तदर्थं, तथा 'पायरासाए' त्ति प्रातरशनं प्रातराशस्तस्मै, कर्म्मसमारम्भाः क्रियन्त इति सामान्येनोक्तावपि विशेषार्थमाह- 'सन्निहि' इत्यादि, सम्यग्निधीयत इति सन्निधिः- विनाशिद्रव्याणां दध्योदनादीनां संस्थापनं, तथा सम्यग् निश्चयेन चीयत इति सन्निचय:अविनाशिद्रव्याणां अभयासितामृवीकादीनां सङ्ग्रहः, सन्निधिश्च सन्निचयञ्च सन्निधिसन्निचयं, धनधान्यहिरण्यादीना क्रियत इति । स च किमर्थमित्याह - 'इह' इत्यादि, 'इहे 'ति मनुष्यलोके 'एकेषा' मिहलोके कृतपरमार्थबुद्धीनां 'मानवानां' मनुष्याणां 'भोजनाय ' उपभोगार्थमिति । तदेवं विरूपरूपैः शस्त्रैरात्मपुत्राद्यर्थं कर्म्मसमारम्भप्रवृत्ते लोके पृथक्प्रहेणकाय श्यामाशाय प्रातराशाय केषाञ्चिन्मानवानां भोजनार्थं सन्निधिसन्निचयकरणोद्यते सति साधुना किं कर्तव्यमित्याह
मू. (८९) समुट्ठिए अनगारे आरिए आरियपन्ने आरियदंसी अयंसंधित्ति अदक्खु, से नाईए नाइयावए न समनुजाण, सव्वामगंधं परिन्नाय निरामगंधो परिव्वए ।
वृ. सम्यक् सततं सङ्गतं वा संयमानुष्ठानेनोत्थितः समुत्थितो, नानाविधशस्त्रकर्म्मसमारम्भोपरत इत्यर्थः, न विद्यतेऽगारं - गृहमस्येत्यनगारः, पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहित इत्यर्थः, सोऽनगारः आराद्यातः सर्वहेयधर्मेभ्यः इत्यार्यः- चारित्रार्हः, आर्या प्रज्ञायस्यासावार्यप्रज्ञः, श्रुतविशेषितशेमुषीक इत्यर्थः, आर्य-प्रगुणं न्यायोपपन्नं पश्यति तच्छीलश्चेत्यार्यदर्शी पृथक्प्रहेणकश्यामाशनादिसङ्कल्परहित इत्यर्थः, 'अयंसंधीति' सन्धानं सन्धीयते वाऽसाविति सन्धिरयं सन्धिर्यस्य साधोरसावयंसन्धिः, छान्दसत्वाद्विभक्तेरलुगित्ययंसन्धिः यथाकालमनुष्ठानविधायी यो यस्य वर्त्तमानः कालः कर्त्तव्यतयोपस्थितस्तत्करणतया तमेव सन्धत्त इति एतदुक्तं भवति-सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्यायभिक्षाचर्याप्रतिक्रमणादिकाः असपना अन्योऽन्याबाधया आत्मीयकर्त्तव्यकाले करोतीत्यर्थः, इतिः हेतौ, यस्माद्यथाकालानुष्ठानविधायी तस्मादसावेव परमार्थं पश्यतीत्याह
'अदक्खु' त्ति, तिव्यत्ययेन एकवचनावसरे बहुवचनमकारि, ततश्चायमर्थः यो ह्यार्य आर्यप्रज्ञ आर्यदर्शी कालज्ञश्च स एव परमार्थमद्राक्षीन्नापर इति पाठान्तरं वा 'अयं संधिमदक्खु' 'अयम्' अनन्तरविशेषणविशिष्टः साधुः 'सन्धि' कर्त्तव्यकालम् 'अद्राक्षीद्' दृष्टवान्, एतदुक्तं भवति यः परस्पराबाधया हिताहितप्राप्तिपरिहाररूपतया विधेयावसरं वेत्ति विधत्ते च स परमार्थं ज्ञातवानिति, अथवा भावसन्धिः- ज्ञानदर्शनचारित्राणामभिवृद्धिः स च शरीरमृते न भवति, तदपि नोपष्टम्भककारणमन्तरेण, तस्य च सावद्यस्य परिहारः कर्त्तव्य इत्यत आह- 'से नाईए ' इत्यादि, 'स' भिक्षुस्तद्वाऽकल्प्यं 'नाददीत' न गृह्णीयात्राप्यपरमादापयेत्-ग्राहयेत्, नाप्यपरमनेषणीयमाददानं समनुजानीयादपि, अथवा सङ्गालं सधूमं वा नाद्यात्-न भक्षयेनापरमादयेददन्तं वान समनुजानीयादिति, आह- 'सव्वामगंधं' इत्याति, आमं च गन्धश्च आमगन्धं समाहारद्वन्द्वः, सर्वं च तदामगन्धं च सर्वामगन्धं, सर्वशब्दः प्रकारकात्सर्येऽत्र गृह्यते न द्रव्यकात्सर्ये, आमम्अपरिशुद्धं, गन्धग्रहणेन तु पूतिर्गृह्यते, ननु च पूतिद्रव्यस्याप्यशुद्धत्वात् आमशब्देनैवोपादानात्किमकिमर्थं भेदेनोपादानमिति ?
सत्यम्, अशुद्धसामान्याद्गृह्यते, किंतु पूतिग्रहणेनेधाकर्म्माद्यविशुद्धकोटिरुपात्ता, तस्याश्च
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International