SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०४ आचाराङ्ग सूत्रम् १/-/२/9/-[नि. १८४] कर्मवर्गणानामेकत्वेतद्विशेषस्यावधित्वेनोपादानात्पञ्चम्येव न्याच्येति, तद्विशेषाधिका वेदनीये उक्तः प्रदेशबन्धः समुदानकापीति।साम्प्रतमीर्यापथिकं, “ईरगतिप्रेरणयोः" अस्माभावे ण्यत्, ईरणमीर्या तस्याः पन्थाईर्यापथस्तत्रभवमीर्यापथिकं,कश्चर्यायाः पन्था भवति?, यदाश्रिता सा भवतीति ?, एतच्च व्युत्पत्तिनिमित्तं यतस्तिष्ठतोऽपि तद्भवति, प्रवृत्तिनिमित्तं तु स्थित्यभावः,तचोपशान्तक्षीणमोहसयोगकेवलिनां भवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तंच- "केवली णं भंते ! अस्सिं समयंसि जेसु आगासपदेसे हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेज्जा, पभूणं भंते ! केवली तेसु चेवागासपदेसेसुपडिसाहरित्तए?, नो इणठे समटे, कहं ?, केवलिस्स णं चलाई सरीरोवगरणाई भवंति, चलोवगरणत्ताए केवली नो सञ्चाएति तेसु चेवागासपदेसेसु हत्यं वा पायं वा पडिसाहरित्तए" तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कर्मबध्यते तदीय्यार्पथिकम्-ईयर्याप्रभवं, ईयहितुकमित्यर्थः, तच्च द्विसमयस्थितिकम्-एकस्मिन् समये बद्धं द्वितीये वेदितं, तृतीयसमये तदपेक्षया चाकर्मतेति, कथमिति ?, उच्यते, यतस्तप्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायिप्रदेशतःस्थूलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तंच॥१॥ “अपं बायरमउयंबहुंच लुक्खं च सुक्किलं चेव । मंदं महव्वतंतिय साताबहुलं च तं कम्मं ।। अल्पंस्थितितःस्थितेरेवाभावात्, बादरंपरिणामतोऽनुभावतोमृद्वनुभावं,बहुच बहुप्रदेशैः, रूशंस्पर्शतो, वर्णेनशुक्लं, मन्दलेपतः, स्थूलचूर्णमुष्टिमृष्टकुड्यापतितलेपवत्महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुलमनुत्तरोपपातिकसुखातिशायीति।उक्तमीर्यापथिकम्, अधुनाआधाकर्म, यदाधाय-निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तदाधाकर्मेति, तच्च शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि-शब्दादिकामगुणविषयभिष्वङ्गवान् सुखलिप्सुर्मोहोपहतचेताः परमार्थासुखमयेष्वपि सुखाध्यारोपं विदधाति, तदुक्तम् - ॥१॥"दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपतिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्॥" एतदुक्तं भवति-कर्मनिमित्तभूतामनोज्ञेतरशब्दादयएवाधाकर्मेत्युच्यन्ते इति।तपःकर्म तस्यैवाटप्रकारस्यकर्मणोबद्धस्पृष्टनिधत्तनिकाचितावस्थस्यापिनिर्जराहेतुभूतं बाह्याभ्यन्तरभेदेन द्वादशप्रकारंतपःकर्मेत्युच्यते।कृतिकर्मतस्यैव कर्मणोऽपयनकारकमहत्सिद्धाचार्योपाध्यायविष्यावनामादिरूपमिति।भावकर्मा पुनरबाधामुल्लाङ्य स्वोदयेनोदीरणाकरणेन वोदीर्णाः पुद्गलाः प्रदेशविपाकाभ्यां भवक्षेत्रपुद्गलजीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्त इति । तदेवं नामादिनिक्षेपेण दशधा कर्मोक्तम्, इह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाऽधिकार इति गाथाशकलेन दर्शयति-अट्टविहेण० गाथाईकण्ठयमिति गाथाद्वयपरमार्थः ।। तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षिप्ते नामादिनिक्षेपेच व्याख्याते सत्युत्तरकालं सूत्रं विव्रियते मू. (६३) जे गुणे से मूलट्ठाणे, जे मूलठाणे से गुणे । इति से गुणट्ठी महया परियावेणं पुणो पुणो वसे पमत्ते-माया मे पिया मे भज्जा मे पुत्ता मे धूआ मे एहसा मे सहिसयणसंगंथसंथुआ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy