SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक: १ जघन्योत्कृष्टविशेषासङ्गख्येयगुणत्वमिति, पुनरप्ययोग्यवर्गणोपरि रूपप्रक्षेपात् जघन्याहारकशरीयोग्यवर्गणा भवन्ति, ताश्च प्रदेशवृद्धया वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते, जघन्याभ्य उत्कृष्टा विशेषाधिकाः को विशेष इतिचेत् ?, जघन्यवर्गणाया एवानन्तभागः, तस्याप्यनन्तपरमाणुत्वादाहारकशरीरयोग्यवर्गणानां प्रदेशोत्तर वृद्धानामानन्त्यमिति भावना, तस्यामेवोत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या आहारकाग्रहणयोग्यवर्गणाः, ततः प्रदेशवृद्धया वर्द्धमाना उत्कृष्टां यावदनन्ता एव आहारकस्य सूक्ष्मत्वाद् बहुप्रदेशत्वाच्चायोग्या एव भवन्ति, बादरत्वादल्पप्रदेशवृद्धया वर्द्धमाना उत्कृष्टां यावदनन्ता एव आहारकस्य सूक्ष्मत्वाद् बहुप्रदेशत्वाच्चायोग्याएव भवन्ति, बादरत्वादल्पप्रदेशत्वाच्च तैजसस्येति, ९९ जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते, जघन्याभ्य उत्कृष्टा अनन्गतगुणाः, केन गुणकार - णेति चेत्, अभव्येभ्योऽनन्तगुणाः सिद्धानामन्तभाग इति, तदुपरि रूपे प्रक्षिप्ते तैजसशरीरवर्गणा जघन्याः, एता अपि प्रदेशवृद्धया वर्द्धमाना उत्कृष्टथं यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरं ?, जघन्याभ्य उत्कृष्टा विशेषस्तु जघन्यवर्गणानन्तभागः, तस्याप्यनन्तप्रदेशत्वाज्जघन्योत्कृष्टान्तरालवर्गणानामानन्त्यं भवति, तैजसोत्कृष्टवर्गणोपरि रूपे प्रक्षिप्ते सत्यग्रहणवर्गणा भवन्ति, एवमेकादिवृद्धयोत्कृष्टान्ता अनन्ताः, ताश्चातिसूक्ष्मत्वाद् बहुप्रदेशत्वाच्च तेजसस्याग्रहणयोग्याः, बादरत्वात् अल्पप्रदेशत्वाच्च भाषाद्रव्यस्यापीति, जघन्योत्कृष्टयोरनन्तगुणत्वेन विशेषो, गुणकारश्चाभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभाग इति, तस्यामयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या भाषाद्रव्यवर्गणा भवति, तस्याश्च प्रदेशवृद्धया उत्कृष्टवर्गणापर्यन्ताम्यनन्तानि स्थानानि भवन्ति, जघन्योत्कृष्टयोर्विशेषो जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा भवति, अत्राप्यनन्त - भागस्यानन्तपरमाण्वात्मकत्वाद्भाषाद्रव्ययोग्यवर्गणानामानन्त्यमवसेयं तदनेनैकादिप्रदेश- वृद्धिप्रक्रमेणायोग्यवर्गणानां जघन्योत्कृष्टादिकं ज्ञातव्यं, नवरं जघन्योत्कृष्टयोर्भेदोऽयम् - अभव्यानन्तरगुणः सिद्धानन्तभागात्मकः, तासां च पूर्व्वहेतुकदम्बकादेव भाषाद्रव्यानापनद्रव्य - योरयोग्यत्वमवसेयम्, अयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते आनापानवर्गणा जघन्या, ततो रूपोत्तरवृद्धयोत्कृष्टवर्गणान्ता अनन्ता भवन्ति, जघन्यातउत्कृष्टा जघन्यानन्तभागाधिका, तदुपरि रूपोत्तरवृद्धया जघन्योत्कृष्टभेदेनाग्रहणवर्गणा, विशेषस्त्वभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभागः, पुनरप्ययोग्योत्कृष्टवर्गणोपरि प्रदेशादिवृद्धया जघन्योत्कृष्टभेदा मनोद्रव्यवर्गणा, जघन्य वर्गणानन्तभागो विशेषः, पुनरपि प्रदेशोत्तरक्रमेणाग्रहणवर्गणा, विशेषश्चाभव्यानन्तगुणादिकः, ताश्च प्रदेशबहुत्वादतिसूक्ष्मत्वाच्च मनोद्रव्यायोग्याः, अल्पप्रदेशत्वाद्, बादरत्वाच्च कार्म्मणस्यापि, तदुपरि रूपे प्रक्षिप्ते जघन्याः कार्म्मणशरीरवर्गणाः, पुनरप्येकैकप्रदेशवृद्धया वर्द्धमाना उत्कृष्टा यावदनन्ता भवन्ति, ? अथ जघन्योत्कृष्टयोः कः प्रतिविशेष इति ?, उच्यते, जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा, सचानन्तभागोऽनन्तानन्तपरमाण्वात्मकोऽत एवानन्तभेदभिन्नाः कर्म्मद्रव्यवर्गणा एवं भवन्ति, आभिश्चात्र प्रयोजनं, द्रव्यकर्म्मणो व्याचिख्यासितत्वादिति । शेषा अपि वर्गणाः क्रमायाताः विनेयजनानुग्रहार्थं व्युत्पाद्यन्ते पुनरप्युत्कृष्टकर्म्मवर्गणोपरि रूपादिप्रक्षेपेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy