________________
श्रुतस्कन्धः - १, अध्ययनं १, उपोद्घात
॥४॥
ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो गुणसयकलिओ जुत्तो पवयणसारं परिकहेउ
आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो देशग्रहणं, पैतृकं कुलमिक्ष्वाक्वादि ज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति, मातृकी, जातिस्तत्संपन्नो विनयादिगुणवान्, भवति, 'यत्राकृतिस्तत्र गुणा वसन्ती' ति रूपग्रहणं, संहननधृतियुतो व्याख्यानादिषु न खेदमेति, अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति, अविकत्थनो हितमितभाषी, अमायी सर्वत्र विश्वास्यः, स्थिरपरिपाटिः परिचितग्रन्थस्य सूत्रार्थगलनासंभवात्, ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः, जितपर्षद् राजादिसदसि न क्षोभमुपयाति, जितनिद्रोऽप्रमत्तत्वान्निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति, मध्यस्थः शिष्येषु समचित्तो भवति, देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति, आसन्नलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञस्य नानाविधदेशजाः शिष्याः व्याख्यानं सुखभवभोत्स्यन्ते, ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चंयथावद्ज्ञापयिष्यति, हेतूदाहरण- निमित्तनयप्रपञ्चज्ञः अनाकुलो हेत्वादीनाचष्टे, ग्राहणाकुशलो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति, स्वसमयपरसमयज्ञः सुखेनैव तत्स्थापनोच्छेदैा करिष्यति, गम्भीरः खेदसहः, दीप्तिमान् पराधृष्यः, शिवहेतुत्वात् शिवः, तदधिष्ठितदेशे मार्य्याद्युपशमनातु, सौम्यः सर्वजननयनमनोरमणीयः, गुणशतकलितः प्रश्रयादिगुणोपेतः, एवंविधः सूरिः प्रवचनानुयोगे योग्यो भवति ॥
तस्य चानुयोगस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि - व्याख्याङ्गानि भवन्ति, तद्यथा उपक्रमो निक्षेपोऽनुगमो नयः, तत्रोपक्रमणमुपक्रमः उपक्रम्यतेऽनेनास्मादस्मिन्निति वोपक्रमः :- व्याचिख्यासितशास्त्रस्य समीपानयनमित्यर्थः, स च शास्त्रीयलौकिक भेदाद् द्विधा, तत्र शास्त्रीयः आनुपूर्वी नाम प्रमाणं वक्तव्यताऽर्थाधिकारः समवतारश्चेति षोढा, लौकिको नाम स्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढैव । निक्षेपणमननेस्मादिस्मिन्निति वा निक्षेपः, उपक्रमानीतस्य व्याचिख्यासितशास्त्रस्य नामादिन्यसनमित्यर्थः, स च त्रिविधः, तद्यथा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च तत्रौघनिष्पन्नोऽङ्गाध्ययनादिसामान्यभिधानन्यासः, नामनिष्पन्न आचारशस्त्रपरिज्ञादि-विशेषाभिधाननामादिन्यासः, सूत्रालापक- निष्पन्नश्च सूत्रालापकानां नामादिन्यसनमिति । अनुगमनमनेनास्माद स्मिन्निति वाऽनुगमः, अर्थकथनमित्यर्थः, स च द्विधानिर्युक्त्यनुगमः सूत्रानुगमश्चेति, तत्र नियुक्त्यगमस्त्रिविधः, तद्यथा निक्षेपनिर्युक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्त्यनुगमश्चेति, तत्र निक्षेपनिर्युक्त्यनुगमो निक्षेप एव सामान्यविशेषाभिधानयोरोघनिष्पन्ननामनिष्पन्नाभ्यां निक्षेपाम्यामनुगतः सूत्रापेक्षया वक्ष्यमाणलक्षणश्चेति, उपोद्घात निर्युक्तयनुगमश्चाम्यां द्वारगाथाम्यामनुगन्तव्यः, तद्यथा - 'उद्देसे निèसे य निग्गमे खेत्तकालपुरिसे य कारणपञ्चयलक्खण नए समोयारणाऽनुमए किं कतिविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं कइ संतरमविरहियं भवागरिस फासणनिरुत्ती"
119 ||
सूत्रस्पर्शिक निर्युक्तयनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनं, स च सूत्रे सति
For Private & Personal Use Only
www.jainelibrary.org
॥२॥
७
Jain Education International
-