SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ मूलं-१ जगनाहो जागबंधू जयइ जयप्पियामहो भवयं॥ वृ.इह स्तुतिर्द्विधा-प्रणामरूपाअसाधारणगुणोत्कीर्तनरूपाच, तत्रप्रणामरूपा सामर्थ्यगम्या, यथा च सामर्थ्यगम्या तथाऽनन्तरमेववक्ष्यते, असाधारणगुणोत्कीर्तनरूपा च द्विधा-स्वार्थसम्पदभिधानयिनी परार्थसम्पदभिधायिनी च, तत्र स्वार्थसम्पन्नः परार्थं प्रति समर्थो भवतीति प्रथमतः स्वार्थसम्पदमाह-'जयति' इन्द्रियविषयकषायघातिकर्मपरिषहोपसर्गादिशत्रुगणपरिजयात् सर्वानप्यतिशेते, इत्थं सर्वातिशायी च भगवान् प्रेक्षावतामश्यं प्रणामार्हः ततो जयतीति, किमुक्तं भवति?-तं प्रति प्रणतोऽस्मीति, किंविशिष्टो जयतीत्याह-'जगज्जीवयोनिविज्ञायकः' जगद्धर्माधर्माकाशपुद्गलास्तिकायरूपं जगद् ज्ञेयं चराचर'मिति वचनात् 'जीवा' इति जीवन्तिप्राणान् धारयन्तीति जीवाः, कः प्राणान् धारयतीति? चेत्, उच्यते, यो मिथ्यात्वादिकलुषिततया वेदनीयादिकर्मणामभिनिवर्तकस्तत्फलस्य च सुखदुःखादेरुपभोक्ता नारकादिभवेषु च यथाकर्मविपाकोदयं संसर्ता सम्यग्दर्शनादिरत्नत्रयाभ्यासप्रकर्षवशाच्चाशेषकर्मांशापगमतः परिनिर्वाता स प्राणान् धारयति स एव चात्मेत्यभिधीयते उक्तं च - .. "यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च। संसद् परिनिर्वाता, स ह्यात्मा नान्यलक्षणः॥ कथमेतत्सिद्धिरिति चेत्?, उच्यते, प्रतिप्राणिस्वसंवेदनप्रमाणसिद्धचैतन्यान्यथाऽनुपपचित्तः, तथाहि-न चैतन्यमिदं भूतानां धर्मः, तद्धर्मत्वे सति पृथिव्याः काठिन्यत्येव सर्वत्र सर्वदाचोपलम्भप्रसङ्गात्, नच सर्वत्र सर्वदा चोपलभ्यते, लोष्ठादौ मृतावस्थायां चानुपलम्भात्, अथात्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते, तदयुक्तं, विकल्पद्वयनातिकमात्, तथाहिसा शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव?, यदि विलक्षणा तर्हि कथमारट्यते शक्तिरूपेण चैतन्यमस्ति?, न हि घटे विद्यमाने पटरूपेण घटस्तिष्ठितीति वक्तुं शक्यम्, आह च "रूपान्तरेण यदि तत्तदेवास्तीति मा रटीः। चैतन्यादन्यरूपस्य, भावेतद्विद्यते कथम्॥" अथ द्वितीयः पक्षस्तहिचैतन्यमेव सा कथमनुपलम्भः?, आवृतत्त्वादनुपलम्भ इति चेत्, नन्वावृतिरावरणं, तच्चावरणं किं विवक्षितपरिणामाभावः उत परिणामान्तरम् आहोस्विदन्यदेव भूतातिरिक्तं किञ्चित्?, तत्र न तावद्विवक्षितपरिणामाभावः, एकान्ततुच्छतया तस्यावारकत्वायोगात्, अन्यथा तस्याप्यतुच्छरूपतया भावरूपताऽऽपत्तिः, भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत्, ‘पृथिव्यादीन्येव भूतानि तत्त्व'मिति वचनात्, पृथिव्यादीनि च भूतानि चैतन्यस्य व्यञ्जकानि नावारकाणीति कथमावारकत्वंतस्योपपत्तिमत्?, अथ परिणामान्तरम्, तदप्ययुक्तं, परिणामान्तरस्यापि भूतस्वभावतया भूतवव्यञ्जकत्वस्यैवोपपत्ते वारकत्वस्य, अथान्यदेव भूतातिरिक्तं किञ्चित्, तदतीवासमीचीनं, भूतातिरिक्ताभ्युपगमे चत्वार्येत्र पृथिव्यादीनि भूतानि तत्त्वमिति तत्त्वसङ्घयाव्याघाप्रसङ्गात्, ___ अपि चेदं चैतन्यं प्रत्येकं वा भूतानां धर्म: समुदायस्य वा?, न तावत्प्रेकमनुपलभ्यात्, न हि प्रतिपरमाणुसंवेदनमुपलभ्यते, यदिच प्रतिपरमाणु भवेत्तर्हि पुरुषसहस्रचैतन्यवृन्दमिव परस्परं विभिन्नस्वभावमिति नैकरूपं भवेत, अथ चैकरूपमुपलभ्यते, अहं पश्यामि अहं करोमित्येवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy