________________
मूलं - ५३
६९
विशिष्ट विशिष्टाध्यवसायानुतोऽप्रमादः 'तं संजयस्स सवप्पमायरहियस्स विविहरिद्धिमतो 'इति वचनप्रामाण्याद्, अवधिज्ञानस्य पुनः तथाविधानिन्द्रियरूपद्रव्यसाक्षादवगमनिबन्धनक्षयोपशमविशेषः, मतिश्रुतज्ञानयोस्तु लक्षणभेदादिकं, तच्चाग्रे वक्ष्यते, उक्तं च"नत्तेगसहावत्तं ओहेण विसेसओ पुन असिद्धं । एगंततस्सहावत्तणओ कह हानिवुड्डीओ ॥ १ ॥ जं अविचलियसहावे तत्ते एगंततस्सहावत्तं । नय तं तहोवलद्धा उक्क रिसावगरिसविसेसा ॥२॥ तम्हा परिथूराओ निमित्तभेयाओ समयसिद्धाओ । उववत्तिसंग ओच्चिय आभिनिबोहाइओ भेओ || ३ || धाइक्खओ निमित्तं केवलनाणस्स वन्निओ समए । मनपज्जवनाणस्स उ तहाविहो अप्पमाउत्ति ॥४॥ ओहीनाणस्स तहा अनिंदिएसुंपि जो खओवसमो । मइसुयनाणाणं पुण लक्खणभेयादिओ भेओ ॥५॥
यदप्युक्तम्-‘ज्ञेयभेदकृतमित्यादि' तदप्यनभ्युपगमतिरस्कृतत्वाद्दूरापास्तप्रसरं, न हि वयं ज्ञेयभेदमात्रतो ज्ञानस्य भेदमिच्छामः, एकेनाप्यवग्रहादिना बहुवहुविधवस्तुग्रहणोपलम्भात्, यदपि च प्रत्यपादि-‘प्रतिपत्तिप्रकारभेदकृत इत्यादि' तदपि न नो बाधामाधातुमलं, यतस्ते प्रतिपत्तिप्रकारा देशकालादिभेदेनानन्त्यमपि प्रतिपद्यमाना न परिस्थूरनिमित्तभेदेन व्यवस्थापितानाभिनिबोधिकादीन् जातिभेदानतिक्रामन्ति, ततः कथमेकस्मिन् अनेकभेदभावप्रसङ्गः ?, उक्तं च'न य पडिवत्तिविसेसा एगंमि य नेगभेयभावेऽवि ।
जं तहाविसि न जाइ भेए विलंघेइ ॥
यदप्यवादीद्-‘आवार्यापेक्षं ह्यावरकमित्यादि' तदापि न नो मनोबाधायै, यतः परिस्थूरनिमित्तभेदमधिकृत्य व्यवस्थापितो ज्ञानस्य भेदः, ततस्तदपेक्षमावारकमपि तथा भिद्यपानं न युष्मादृशदुर्जनवचनीयतामास्कन्दति । एवमुत्तेजितो भूयः सावष्टम्भं परः प्रश्नयति- ननु परिस्थूरनिमित्तभेदव्यवस्थापिता अप्यमी आभिनिबोधिकादयो भेदा ज्ञानस्यात्मभूता उतानात्मभूताः किञ्चात: ?, उभयथापि दोष:, तथाहि यद्यात्मभूतास्ततः क्षीणावरणेऽपि तद्भावप्रसङ्गः, तथा चासर्वज्ञत्वं प्रागुक्तनीत्या तस्यापद्यते, अथानात्मभूतास्तर्हि न ते पारमार्थिकाः, कथमावार्यापेक्ष वास्तव आवारकभेदः ?, तदपि न मनोरमं सम्यक्वस्तुतत्त्वापरिज्ञानाद्,
इह हि सकलघनपटविनिमुक्तशारददिनमणिरिव समन्ततः समस्तवस्तुस्तोमप्रकाशनैकस्वभावो जीवः, तस्य च तथाभूतः स्वभाव: केवलज्ञानमिति व्यपदिश्यते, स च यद्यपि सर्वघातिना केवलज्ञानावरणेनाव्रियते तथापि तस्यानन्ततमो भागो नित्योद्घाटित एव "अक्खरस्स अनंतो भागो निच्चुग्घाडिओ, जइ पुण सोऽवि आवरिज्जा तेणं जीवो अजीवत्तणं पाविज्जा" इत्यादि वक्ष्यमाणप्रवचनप्रामाण्यात्, ततस्तस्य केवलज्ञानावरणावृतस्य घनपटलाच्छादितस्येव सूर्यस्य यो मन्दः, प्रकाशः सोऽपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते, यथा घनपटलावृतसूर्यमन्दप्रकाशोऽपान्तरालावस्थितकटकुड्यद्यावरणविवरप्रदेशभेदतः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org