SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ मूलं - ४६ तथा शिष्योऽपि यो व्याख्यावाचनादौ दोषानभिगृह्णाति गुणांस्तु मुञ्चति स परिपूर्णकसमान:, चायोग्य, आह च आवश्यकचूर्णिकृत 'वक्खाणाइसु दोसे हिययंमि ठवेइ मुयइ गुणजालं । सो सीसो उ अज्ञोग्गो भणिओ परिपूणगसमानो ॥” $6 ५९ आह-सर्वज्ञमतेऽपि दोषाः सम्भवन्तीत्य श्रद्धेयमेतत् सत्यम्, उक्तमत्र भाष्यकृता"सव्वण्णुप्पामण्णा दोसा हु न संति जिनमए केवि । जं अनुवउत्तवकहणं अपत्तमासज्ज व हवंति ।। " सम्प्रति हंसदृष्टान्त भावना, यथा हंसः क्षीरमुदकमिश्रितमप्युदकमपहाय क्षीरमापिबति तथा शिष्योऽपि यो गुरोरनुपयोगसम्भवान् दोषानवधूय गुणानेव केवलानादत्ते स हंससमानः, चैकान्तेन योग्यः । स स " ननु हंसः क्षीरमुदकमिश्रितमपि कथं विभक्तीकरोति ?, येन क्षीरमेव केवलमापिबति न तूदकमिति, उच्यते, तज्जिह्याया अम्लत्वेन क्षीरस्य कूचिकीभूय पृथग्मभवनात्, उक्तं च'अंबत्तणेण जीहाए कूचिया होइ खीरमुदयंमि । हंसो मोत्तूण जलं आवियइ पयं तह सुसीसो ॥' मोत्तृण दढं दोसे गुरुणोऽनुवउत्तभासियाईपि । गिves गुणे उ जो सो जोग्गो समयत्थसारस्स ।।” 11 इदानीं महिपदृष्टान्तभावना यथा महिपो निपातस्थानमवाप्तः सन् उदकमध्ये प्रविश्य तदुदकं . मृहुर्मुहुः शृङ्गाभ्यां ताडयन्नवगाहमानश्च सकलमपि कलुषीकरोति, ततो न स्वयं पातुं शक्नोति नापि यूथं तद्वत्, शिप्यो ऽपि यो व्याख्यानप्रबन्धावसरेऽकाण्ड एव क्षुद्रपृच्छादिभिः कलहविकथादिभिर्वाऽऽत्मनः परेषां चानुयोग श्रवणविधातमाधत्ते स महिषसमानः, स चैकान्तेनायोग्यः, "सयमवि न पियइ महिसो न य जूहं पिबति लोलियं उदयं । विग्गहविकहाहि तहा अथक्कपुच्छाहिय कुसीसो ॥" मेषोदाहरणभावना-यथा मेषो वदनस्य तनुत्वात् स्वयं च निभृतात्मा गोष्पदमात्रस्थितिमपि जलमकलुषीकुर्वन् पिबति तथा शिष्योऽपि यः पदमात्रमपि विनयपुरस्सरमाचार्यचित्तं प्रसादयन् पृच्छति स मेषसमानः, स चैकान्तेन योग्यः ॥ मसकदृष्टान्तभावना--य: शिष्यो मसक इव जात्यादिदोषानुद्घट्टयन् गुरोर्मनसि व्यथामुत्पादयति स मसकसमानः, स चायोग्यः ॥ जलौकदृष्टान्तभावना-यथा जलौकाः शरीरमदुन्वती रुधिरमाकर्षति, तथा शिष्योऽपि यो गुरुमदुन्वन् श्रुतज्ञानं पिबति स जलौकासमानः, उक्तं च-. Jain Education International "जलुगा व अदूमिंतो पियइ सुसीसोऽवि सुयनाणं ।" बिडालीदृष्टान्तभावना-यथा बिडाली भाजनसंस्थं क्षीरं भूमौ विनिपात्य पिबति, तथादुष्टस्वभावत्वाद्, एवं शिष्योऽपि यो विनयकरणादिहीनतया न साक्षाद् गुरुसमीपे गत्वा शृणोति, किन्तु व्याख्यानादुत्थितेभ्यः केभ्यश्चित्, स बिडालीसमानः, स चायोग्यः ॥ तथा जाहक:- तिर्यग्विशेषः, तत्र दृष्टान्तभावना -यथा जाहकः स्तोकं २ क्षीरं पीत्वा पाश्र्वाणि For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy