________________
मूलं-४६ करतरमवभासमानो वर्त्तते, ततः स चाकचिक्यमादधानो हसन्निव नारदपुष्कराक्र्ती समागच्छन्तावेवमभाष्टि-समागच्छत २, स्वागतं युष्माकम्?, - अहो कृतकल्याणा वयं यदतर्कितोपनीतकाञ्चनवृष्टिरिव युष्मदर्शनमकाण्ड एव मन्मनोमोदाधायि संवृत्तमिति, तत एवमुक्त भ्रष्टप्रतिज्ञमात्मानवबुध्य लज्जावनतकन्धराशिरोनयनः पुष्करावर्तो यत्किञ्चिदाभाष्य स्वस्थानं गतः, एष दृष्टान्तः, उपनयस्त्वयम्-कोऽपि शिष्यो मुद्गशैलसमानधर्मा निरन्तरं यतत: पाठ्यमानोऽपि पदमप्येकं भावतो नावगाहते, ततोऽयोग्योऽयमितिकृतवा स्वाचार्यरुपेक्षितः, तं च तथोपेक्षितमवबुध्य कोऽप्यन्य आचार्योऽभिनवतरुणिमावेगवशोज्जृम्भितमहाबलपराक्रमः अत एवागणितव्याख्याविधिपरिश्रमो यौवनिकमदवशतोऽपरिभावितगुणागुणविवेको वक्तुमेवं प्रवृत्तो-यथैनमहं पाठ्यिष्यामि, पठति च लोकानां पुरतः सुभाषितम्
___'आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नावबुध्यते।
___ गावो गोपालकेनेव, कुतीर्थेनावतारिताः॥' ततः तं सर्वादरेण पाठयितुंलग्नः, स च मुद्दशैल इव दृढप्रतिज्ञो न भावतः पदमप्येकं स्वचेतसि परिणमयंति, ततः खिन्नशक्तिराचार्यो भ्रष्टप्रतिज्ञमात्मानां जानानो लज्जितो यत्किमप्युत्तरं कृत्वा तत्स्थानादपसृत्य गतः, ततः एवं विधाय नेदमध्ययनं दातव्यम्, यतो न खलु वन्ध्या गौः शिर:शृङ्गवदनपृष्ठपृच्छोदरादौ सस्नेहं स्पृष्टाऽपि सती दुग्धप्रदायिनी भवति, तथास्वाभाव्याद्, एवमेषोऽपि सम्यक् पाठ्यमानोऽपि पदमप्येकं नावगाहते, ततो न तस्य तावदुपकारः, आस्तां तस्योपकाराभावः प्रत्युत आचार्ये सूत्रे चापकीर्तिरुपजायते, यथा न सम्यकौशलमाचार्यस्य व्याख्यायामिदं वाऽध्ययनं न समीचीनं, कथमयमन्यथा नावबुध्यते इति?, अपि च
तथाविधकुशिष्यपाठने तस्यावबोधाभावात् उत्तरोत्तरसूत्रार्थनवगाहने सूरेः सकलावपि शास्त्रान्तरगतौ सूत्रार्थो भ्रंशमाविशतः, अन्येषामपि च पटुश्रोतृणामुत्तरोत्तरसूत्रार्थावगाहनहानिप्रसङ्गः, उक्तं च भाष्यकारेण
"आयरिए सुत्तमि य परिवाओ सुत्तअत्थपलिमन्थो।
अन्नेसिपि य हानी पुठ्ठावि न दुद्धया वंझा।" मुद्गशैलप्रतिपक्षभूतो योग्यशिष्यविषयो दृष्टान्तः कृष्णभूमिप्रदेशः, तत्र हि प्रभूतमपि जलं निपतितं तत्रैवान्तः परिणमति, न पुनः किञ्चिदपि ततो बहिरपगच्छति, एवं यो विनये: सकलसूत्रार्थग्रहणधारणासमर्थः स कृष्णभूमिप्रदेशतुल्यः सच योग्यः, ततस्तस्मै दातव्यमिदमध्ययनमिति, आह च भाष्यकृत
"वुढेऽविदोणमेहे न कण्हभोमाउ लोट्टए उदयं।
गहणधरणासमत्थे इय देयमछित्तिकारंमि॥". सम्प्रति कुटदृष्टान्तभावना क्रियते-कुटा-घटाः ते द्विधा-नवीना जीर्णाश्च, तत्र नवीना नाम ये सम्प्रत्येवापाकत: समानीताः, जीर्णा द्विधा-भाविता अभाविताश्च, भाविता द्विधा-प्रशस्तद्रव्यभाविता अप्रशस्तद्रव्यभाविताश्च, तत्र ये कर्पूरागुरुचन्दनादिभिः प्रशस्तैर्द्रव्यैर्भाविताः ते प्रशस्तद्रव्यभाविताः, ये पुनः पलाण्डुलशुनसुरातैलादिभिर्भाविताः तेऽप्रशस्तद्रव्यभाविताः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org