________________
मूलं - ३५०
४७७
अयमपि स्वपक्षसिद्धये युक्तिरूद्भावयति- ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणं, यत आगमेऽपि तीर्थकरगणधरैः क्रियाविकलानां ज्ञानं निष्फलमेव उक्तं,
"सुबहुपि सुयमहीयं किं काही चरकविप्पमुक्कस्स ? | अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ १ ॥ नाणं सविसयनिययं न नाणमित्तेण कञ्जनिप्फत्ती । नूदित हो सचिट्ठोसचिट्ठो य ॥२॥ तोऽवि तरिकाइयजोगं न जुंजई जो उ। सो वुझइ सोएगं एवं नाणी चरणहीनो || ३ ||
जहा खरो चंदनभारवाही'त्यादि, तथा अन्यैरप्युक्तम्
"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥" इति, एवं तावत् क्षायोपशमिकीं चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम्,
अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयं, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्ति: संपद्यते यावद्खिलकर्मेन्धनानलज्वालाकलापरूपायां शैलेश्यवस्तायां सर्वसंवररूपां चारित्रक्रियां न प्राप्नोति, तस्माद् क्रियैव प्रधाना सर्वपुरुषार्थसिद्धिकारणं, प्रयोगश्चात्रयद्यत्समनन्तरभावि तत्तत्कारणं, यथा अन्त्यावस्ताप्राप्तपृथिव्यादिसामग्रयनन्तरभावी तत्कारणोऽङ्कुरः, क्रियाऽनन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चैष चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्वश्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छतीति गाथार्थः ॥
ननु पक्षद्धयेऽपि युक्तिदर्शनात्किमिह तत्त्वमिति न जानीम इति शिष्यजनसम्मोहमाशङ्कय ज्ञानक्रियानमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह
'सव्वेसिंपि' गाहा, न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? - 'सर्वेषामपि ' स्वतन्त्र - सामान्यविशेषवादिनां नामस्थापनादिवादिनां वा नयानां 'वक्तव्यतां' परस्परविरोधिनीं प्रोक्ति 'निशम्य' श्रुत्वा तदिह 'सर्वनयविशुद्धं' सर्वनयसम्मतं तत्त्वरूपतया ग्राह्यं, यत् किमित्याह
'यच्चरणगुणस्थितः साधुः 'चरणं चारित्रक्रिया गुणोऽत्र ज्ञानं तयोस्तिष्ठतीति चरणगुणस्थः, ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्त एव साधुः मुक्तिसाधको न पुनरेकेन केनचिदिति भावः, तथाहियत्तावज्ज्ञानवादिना प्रोक्तं यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविभाभाविन्याः पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाहपाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयनसन्दुक्षणज्वालनादिक्रियानुष्ठानादपि न च तीर्थकरोऽपि केवलज्ञानमाक्पान्मुक्ति साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि तस्मात्सर्वत्र ज्ञानक्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभवित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धेर्ज्ञाननिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति,
एवं क्रियावादिनाऽपि यद्यत्समन्तरभावि तत्तत्कारणमित्यादिप्रयोगे यस्तदनन्तरभावित्व
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org