________________
मूलं- २९६
४११
मू. (२९६ )
एएसि पल्लाणं कोडाकोडी भवेज्ज दसगुणिया ।
तं सुहुमस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥
मू. (२९७ ) एएहिं सुहुमेहिं खेत्तप० सागरोवमेहिं किं पओअणं ?, एएहिं सुहुमपलि साग० दिट्टिवाए दव्वा मविज्जति ।
वृ. उक्तं सप्रयोजनमद्धापल्योपमं क्षेत्रपल्योपममप्युक्तानुसारत एव भावनीयं, नवरं व्यावहारिकपल्योपमे 'जे णं तस्स पल्लस्से' त्यादि, तस्य पल्यस्यान्तर्गता नभः प्रदेशास्तैर्वालाग्रैर्ये 'अप्फुन्न'त्ति आस्पृष्टा - व्याप्ता आक्रान्ता इतियावत्, तेषां सूक्ष्मत्वात् प्रतिसमयमेकैकापहारे असङ्ख्या उत्पfर्पण्यवसर्पिण्योऽविक्रामन्त्यतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीमानं प्रस्तुतपल्योपमं ज्ञातव्यं, सुक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मैर्वालाग्रैः स्पृष्टा अस्पृष्टाश्च नभः प्रदेशा गृह्यन्ते, अतस्तद्व्यावहारिकादसङ्ख्येयगुणकालमानं द्रष्टव्यम् । आह-यति स्पृष्टा अस्पृष्टाश्च नभः प्रदेशा गृह्यन्ते तर्हि वालाग्रैः किं प्रयोजनं ?, यथोक्तपल्यान्तर्गतनभः प्रदेशापहारमात्रत: सामान्येनैव वक्तुमुचितं स्यात्, सत्यं, किन्तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टैरेव नभः प्रदेशैर्मीयन्ते कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति ।
'तत्थ णं चोयए पन्नवग' मित्यादि, तत्र नभः प्रदेशानां स्पृष्टास्पृष्टत्वप्ररूपणे सति जातसन्देहः प्रेरकः प्रज्ञापकम् - आचार्यमेवमवादीत्-भदन्त ! किमस्त्येतद् यदुत तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाग्रैरस्पृष्टाः ?, पूर्वोक्तप्रकारेण वालाग्राणां तत्र निविडतयाऽवस्थापनाच्छिद्रस्य क्वचिदप्यसम्भवाद् दुरुपपादिमिदं यत्तत्रास्पृष्टा नभः प्रदेशाः सन्तीति प्रच्छकाभिप्रायः, तत्रोत्तरं - हन्तास्त्येतत्, नात्र सन्देहः कर्तव्यः, इदं च दृष्टान्तमन्तरेण वाङ्मात्रतः प्रतिपत्तुमशक्तः पुर्विनेयः पृच्छति - यथा कोऽत्र दृष्टान्तः ?, प्रज्ञापक आह
'से जंहानामए' इत्यादि, अयमत्र भावार्थ:- कूष्माण्डानां - पुस्फलानां भृते कोष्ठके स्थूलदृष्टीनां तावद् भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परं तानि छिद्राणि संभाव्यन्ते यद्यपि मालिङ्गानि - बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुनर्भृतोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु विल्वानि प्रतिप्तानि तान्यपि मान्तीत्येवं तावद् यावत्सर्वपच्छिद्रेषु गुङ्गावालुका प्रक्षिप्ता साऽपि माता, एवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्टनभः प्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवासङ्ख्याता अस्पृष्टा नभः प्रदेशाः, दृश्यते च निविडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालिताय:कीलकानां बहूनां तदन्तः प्रवेशः, न चासौ शुषिरमन्तरेण संभवति, एवमिहापि भावनीयम् ॥
मू. (२९८ ) कइविहाणं भंते! दव्वा पन्नत्ता ?, गो० ! दुविहा पन्नत्ता, तंजहा- जीवदव्वा य अजीवदव्वा य । अजीवदव्वा णं भंते! कइविहा पन्नत्ता ?, गो० ! दुविहा प०, तंजहारूवीअजीवदव्वा य अरू वीअजीवदव्वा य। अरूवी अजीवदव्वा णं भंते! कइविहा पन्नत्ता ?, गो० ! दुविहा पत्रत्ता, तंजहा- धम्मत्थिकाए धम्मत्थिकायस्स देसा धम्मित्थिकायस्स पएसा अधम्मत्थिकायस्स देसां अधम्मत्थिकायस्स पएसा आगासत्थिकाए आगासत्थिकायस्स देसा • आगास० पएसा, अद्धासमए। रूवीअजीवदव्वा णं भंते! कइविहा प० ?, गो० ! चउव्विंहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org