________________
३९२
अनुयोगद्वार-चूलिकासूत्रं असंखे० उक्कोसेणं गाउ अपज्ज० भुअप० गो० ! जहन्नेणं अंगु० असं उक्को० अं०, पज्जत्तगगब्भवकंतियरभुअपरिसप्पथलयरपुच्छा, गो० ! जहन्नेणं अंगुलस्स संखे० उक्कोसेणवि गाउअपुहुत्तं, खहयरपंचिंदियपुच्छा, गो० ! जह० अंगु० असं० उक्को० धनुपुहुत्तं, संमिच्छमखहयराणं जहा भुअगपरिसप्पसंमुच्छिमाणं तिसुवि गमेसुतहा भाणिअव्वं, गब्भकतिअखहयरपुच्छा, गो०! अं असं० उक्कोसेणवि अं०, पज्जत्तगग० ख० गो० ! जह० अं० संखे० उक्को० धनु०,
एत्थ संगहणिगाहाओ भवंति, तंजहा
वृ. इहौधिकपञ्चेन्द्रियतिश्चां प्रथममवगाहना चिन्त्यते-सा चोत्कृष्टा योजनसहस्रं जघन्यं तं पदं सर्वत्राङ्गलसंख्येयभागरूपत्वेनाविशेषान्नोच्यते, स्वयमेव भावनीयम्, एते च पञ्चेन्द्रितिर्यञ्चो जलचरस्थलचरखचरभेदन्त्रिधा भवन्ति, तत्रौधिका जलचराणां प्रथममवगाहना निरूप्यते-साऽप्युत्कृष्टा योजनसहस्रं १, ततस्तेषामेव सम्म→जानां तावन्मानैव २, तत एतेषामेवापर्याप्ताविशेषितानामृत्कृष्टाऽप्यङ्गुलासंख्येयभागामानैव ३, तदनन्तरममीषामेव पर्याप्तत्वविशिष्टानामृत्कृष्टा योजनसहस्रम् ४, इतस्तेषमोव गर्भव्युक्रान्तिकानामुत्कर्षतो योजनसहस्रम् ५, अत एतेषामेवापर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यनुलासंख्येयभागाः ६, ततोऽप्यमीषामेव पर्याप्तानां उत्कृष्टा योजनसहस्रम् ७ इति जलचरपञ्चेन्द्रियतिरश्चां सप्त अवगाहनास्थानानि, अत्र च सर्वत्र योजनसहस्रमानं स्वयम्भूरमणमत्स्यानामवंसेयम। ___ इदानीं स्थलचरेषु निरूप्यते-तेऽपि चतुष्पदो:परिसर्पभुजपरिसर्पभेदात्रिविधा भवन्ति, अत
आदावौधिकचतुष्पदस्थलचराणामुच्यते-सा चोत्कृष्टपदवर्तिनी देवकुर्वादिगतगर्भजद्विरदानाश्रित्य षङ्गव्यूतप्रमाणा निश्चेतव्या १, ततस्तेषामेव सम्मूर्छनजत्वविशेषितानां सा गव्यूतपृथक्त्वं २, ततोऽपर्याप्तानामुत्कृष्टाऽप्यगुलासङ्ख्येयभागः ३ पर्याप्तानां गव्यूतपृथक्त्वं ४, तेषामेव गर्भजाना गव्यूतषट्कं ५, तेपामेवापर्याप्तानामगुलासङ्घयेयभागः ६, पर्याप्तानां षड्गव्यतूतानि ७ इति चतुष्पदस्थलचरपञ्चेन्द्रियतिरश्चामपि सप्तावगाहनास्थानानि, साम्प्रतं विषधराधुरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यक्ष्यवगाहना प्रोच्यते___ तत्रौधिकोर परिसर्पाणां बहिर्वीपवर्तिगर्भसर्पानाश्रित्योत्कृष्टा योजनसहस्रं १ सम्मूर्च्छनजानां योजनपृथक्त्वं २, तेषामप्यपर्याप्तानांअङ्गुलासङ्घयेयभागः ३, पर्याप्तानां योजनपृथक्त्वं ४, गर्भजानां सर्पाणा योजनसहस्रम् ५, अपर्याप्तानामङ्गुलासङ्घयेयभाग:६, पर्याप्तानां योजनसहस्रम् ७ इत्युरःपरिसपेषु सप्त स्थानानि, एवं भुजपरिसपेष्वपि गोधानकुलादिस्थलचरेष्वपीत्थमेव सप्तावगाहनास्थानानि द्रष्टव्यानि, नवरमेतेषवाद्यपदे सामान्यगर्भजपदे पर्याप्तगर्भजपदे च गव्यूतपृथक्त्वं, सामान्यसम्मूर्च्छनजपदे पर्याप्तसम्मूर्च्छनजपदे च धनुःपृथक्त्वं, शेषपदद्वयेऽङ्गुलासङ्घयेयभागः, तदेवंस्थलचरेषु त्रिविधेष्वप्यगाहना चिन्तिता, एवं खरचेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमत्राप्यपर्याप्तासम्मूर्च्छजापर्याप्तगर्भजलक्षणस्थानद्वये उत्कृष्टाऽवगाहना प्रत्येकं अङ्गुलासङ्ख्येयभाग: शेषेषु, पञ्चसुस्थानेषु धनुःपृथक्त्वं, तदेवं, षट्त्रिंशत्स्थानेषु पञ्चेन्द्रियतिरश्चा मवगाहनाकनिरूप्य संग्रहंकुर्वन्नह
'एत्थ संगहणिगाहाओ भवंति, तंजहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org