________________
मूलं - ३
३५
विकारः तद्धेतुक इति वक्तुं शक्यम्, नाप्यन्यो हेतुरुपलभ्यते, तस्मात्तदप्यन्थान्यथाभवनं कर्म्महेतुकमेष्टव्यम्, तथा च सति कम्मैवैकमभ्युपगम्यतां किमन्तर्गडुना तद्धेतुतया कफादिपरिणतिविशेषाभ्युपगमेन ? |
किञ्च-अभ्यासजनितप्रसराः प्रायो रागादयः, तथाहि यथा यथा रागादयः सेव्यन्ते तथा तथाऽभिवृद्धिरेव तेषामुपजायते, न प्रहाणिः, तेन समानेऽपि कफादिपरिणतिविशेषे तदवस्थेऽपि च देहे यस्येह जन्मनि परत्र वा यस्मिन् दोषेऽभ्यासः स तस्य प्राचुर्येण प्रवर्त्तते, शेषस्तु मन्दतया, ततोऽभ्याससम्पाद्यकर्मोपचयहेतुका एव रागादयो न कफादिहेतुका इति प्रतिपत्तव्यम् । अन्यच्चयदि कफहेतुको रागः स्यात् ततः कफवृद्धौ रागवृद्धिर्भवेत्, पित्तप्रकर्षे तापप्रकर्षवत्, न च भवति तदुत्कर्षोत्थपीडाबाधिततया द्वेषस्यैव दर्शनात्, अथ पक्षान्तरकगृह्णीथा यदुत न कफहेतुको रागः किन्तु कफादिदोषसाम्यहेतुकः, तथाहि कफादिदोषसाम्ये विरुद्धव्याध्यभावतो रागोद्भवो दृश्यते इति, तदपि न समीचीनं, व्यभिचारदर्शनात्, न हि यावत् कफादिदोषसाम्यं तावत् सर्वदैव रागोद्भवोऽनुभूयते, द्वेषाद्युद्भवस्याप्यनुभवात्, न च यद्भावेऽपि यन्न भवति तत्तद्धेतुकं सचेतसा वक्तु शक्यम् ।
अपि च- एवमभ्युपगमे ये विषमदोषास्ते रागिणो न प्राप्नुवन्ति, अथ च तेऽपि रागिणो दृश्यन्ते । स्यादेतद्-अलं चसूर्या, तत्त्वं निर्वच्मि शुक्रोपचयहेतुको रागा नान्यहेतुक इति तदपि न युक्तम्, एवं ह्यत्यन्तस्त्रीसेवापरतया शुक्रक्षयतः क्षरत् क्षतजानां रागिता न स्याद्, अथ चैतेऽपि तस्यामप्यवस्थायां निकामं रागिणो दृश्यन्ते, किञ्च यदि शुक्रस्य रागहेतुता तर्हि तस्य सर्वस्त्रीषु साधारणत्वान्नैकस्त्रीनियतो रागः कस्यापि भवेत्, दृश्यते च कस्याप्येकस्त्रीनियतो रागः, अथोच्येत-रूपस्यापि कारणत्वाद्रूपातिशयलुब्धः तस्यामेव रूपवत्यामभिरज्यते, न योषिदन्तरे,"रूपातिशयपाशेन, विवशीकृतमानसाः ।
स्वां योषितं परित्यज्य, रमन्ते योषिदन्तरे ॥ "
तदपि न मनोरमं रूपरहितायामपि क्वापि रागदर्शनात्, अथ तत्रोपचारविशेषः समीचीनो भविष्यति तेन तत्राभिरज्यते, उपचाराऽपि च रागहेतुर्न रूपमेव केवलं तेनायमदोष इति, तदपि व्यभिचारे, द्वयेनापि विमुक्तायां कचिद्रागदर्शनात्, तस्मादभ्यासजनितोषचयपरिपाकं कम्मैव विचित्रस्वभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति कर्महेतुका रागादयः ।
एतेन यदपि कश्चिदाह - पृथिव्यादिभूतानां धर्म्मा एते रागादय:, तथाहि पृथिव्यम्बुभूयस्त्वे रागः तेजोवायुभूयस्त्वे द्वेषो जलवायुभूयस्त्वे मोह इति, तदपि निराकृतमवसेयं, व्यभिचारात्, तथाहि यस्यामेवावस्थायां रागः सम्मतः तस्यामेवावस्थायां द्वेषो मोहोऽपि च दृश्यते, तत एतदपि यत्किञ्चित्, तस्मात् कर्म्महेतुका रागादयस्तत्कर्मनिवृत्तौ निवर्त्तन्ते, प्रयोगश्चात्र- ये सहकारिसम्पाद्या यदुपधानादपकर्षिणः ते तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणो, यथा रोमहर्षादयो वह्निवृद्धौ, भावनोपधानादपकर्षिणश्च सहकारिसम्पाद्या रागादय इति, अत्र सहकारिसम्पाद्या इति विशेषणं सहभूस्वभावबोधादिव्यवच्छेदार्थं, यदपि च प्रागुपन्यस्तं प्रमाणं यदनादिमत् न तद्विनाशमाविशति यथाऽऽकाशमिति, तदप्यप्रमाणं, हेतोरनैकान्तिकत्वात्, प्रागभावेन व्यभिचारात्, तथाहि - प्रागभावोऽनादिमानपि विनाशमाविशति, अन्यथा कार्यानुत्पत्तेः, भावनाधिकारी च सम्यग्दर्शनादि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International