________________
३७०
अनुयोगद्वार - चूलिकासूत्रं
तत्र ह्यादावेव 'आवन्ती केयावन्ती' त्यालापको विद्यत इत्यादानपदेनैतन्नाम, 'चाउरु गिञ्जं 'ति एतदुत्तराध्ययनेषु तृतीयमध्ययनं तत्र चादौ ' चत्तारि परमगणि, दुल्लहाणीह जंतुणो' इत्यादि विद्यते, 'असंखयं' इदमप्युत्तराध्ययनेष्वेव चतुर्थमध्ययनं तत्र च आदावेव 'असंखयं जीविय मा पमायए' इत्येतत्पदमस्ति, ततस्तेनेदं नाम, एवमन्यान्यपि कानिचिदुत्तराध्ययनान्तर्वर्तीन्यध्ययनानि कानिचित्तु दशवैकालिकसूयगडाद्यध्ययनानि स्वधिया भावनीयानि ३ ।
मू. ( २३५ ) से किं तं पडिवक्खपएणं ?, २ नवेसु गामागरणगरखेडकब्ब बडमडंबदोणमुहपट्टनामससंवाहत्रिवेसेसु संनिविस्समानेसु असिवा सिवा अग्गी सीअलो विसं महुरं कल्लालघरेसु अंबिलं साउअं जे रत्तए से अलत्तए जे लाउए से अलाउए जे सुंभए से कुसुंभए आलवंते विवलीअभासए, से तं पडिवक्खपरणं ।
से किं तं पाहन्नयाए ?, असोगवने सत्तवन्नवने चंपगवने चूअवने नागवने पुन्नागवने उच्छुवने दक्खवने सालिवने, से तकपाहन्याए ।
से किं तं अनाइसिद्धतेणं ?, धम्मत्थिकाए अधम्मत्थिकाए आगसंत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए, से तं अनाइगसिद्धतेणं । से किं तं नामेणं ?, २ पिउपिआमहस्स नामेणं उन्नामिज्जइ (ए), से तं नामेणं ।
से किं तं अवयवेणं ?, २
,
वृ. विवक्षितस्तुधर्मस्य विपरीतो धर्मो विपक्षस्तद्वाचकं पदं विपक्षपदं तन्निष्पन्नं भवति, यथा शृगाली अशिवाऽप्यमाङ्गलिकशब्दपरिहारार्थं शीवा भण्यते, किं सर्वदा ?, नेत्याह'नवेसु' इत्यादि, तत्र ग्रसते बुद्ध्यादीन्, गुणानिति ग्रामः प्रतीतः, आकरो- लोहाद्युत्पत्तिस्थानं, नगरं - कररहितं खेटं धूलीयमयप्रकारोपेतं, कर्बटं कुनगरं, मडम्बं सर्वतो दूरवर्तिसन्निवुशान्तरं द्रोणमुखं - जलपथस्थलपथोपेतं, पत्तनं - नानादेशागतपणययस्थानं, तच्च द्विधाजलपत्तनं स्थलपत्तनं च रत्नभूमिरित्यन्ते, आश्रमः - तापसादिस्थानं, सम्बाधः - अतिबहुप्रकारलोकसङ्कीर्णस्थानविशेष:, सन्निवेशो- घोषादिरथवा ग्रामादीनां द्वन्द्वे ते च ते सन्निवेशाश्चेत्येवं योज्यते, ततस्तेषु ग्रामादिषु नूतनेषु निवेश्यमानेष्वशिवापि सा मङ्गलार्थं शिवेत्युच्यते, अन्यदा त्वनियमः, तथा कोऽपि कदाचित्केनापि कारणवेशनाग्निः शीतो विषं मधुरमित्याद्याचष्टे, तथा कल्पपालगृहेषु किलाम्लशब्दे समुच्चारिते सुरा विनश्यति अतोऽनिष्टशब्दपरिहारार्थमम्लं स्वादूच्यते, तदेवमेतानि शिवादीनि विशेषविषयाणि दर्शितानि, साम्प्रतं त्वविशेषतो यानि सर्वदा प्रवर्तन्ते तान्याह
'जो अलत्तए' इत्यादि, यो रक्तो लाक्षारसेन प्राकृतशैल्या कन्प्रत्ययः, स एव रश्रुतेर्ल श्रुत्या अलक्तक उच्यते, तथा यदेव लाति-आदत्ते धरति प्रक्षिप्तं जलादि वस्तु इति निरुक्छतेर्लाबु तदेव अलाबु तुम्बकमभिधीयते, य एव च सुम्भकः शुभवर्णकारी स एव कुसुम्भकः, 'आलवंते'त्ति आलपन् - अत्यर्थं लपनसमञ्जसमिति गम्यते, स किमित्याह- 'विवलीयभासए' त्ति भाषकाद् विपरीतो विपरीत भाषक इति, राजदन्तादिवत् समासः, अभाषक इत्यर्थः, तथाहि सुबह्वसम्बद्धं प्रलपन्तं कञ्चिद् दृष्ट्वा लोके वक्तारो भवन्ति, अभाषक एवायं दृष्टव्योऽसारवचनत्वादिति, प्रतिपक्षनामता यथायोगं सर्वत्र भावनीया, ननु च नोगौणादिदं न भिद्यते
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International