SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ मूलं-१४५ मू.(१४५) से किं तं भावानुपुवी?, २ तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुव्वी । से किं तं पुव्वानुपुव्वी?, २ उदइए उवसमिए खाइए खओवसमिए पारिणामिए संनिवाइए. से तं पुव्वानुपुव्वी । से किं तं पच्छानुपुवी?, २ सनिवाइए जाव उदइए, से तं पच्छानुपुव्वी। से किं तं अनानुपुव्वी?, २ एआए चेव एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अन्नमनब्भासो दुरुपूणो, से तं अनानुपुव्वी। से तं भावानुपुव्वी, से तं आनुपुव्वी, आनुपुव्वीत्ति पदं समत्तं । वृ. इह तेन तेन रूपेण भवनानि भावाः-वस्तुपरिणामविशेषा:-औदयिकादयः, अथवा तेन तेन रूपेण भवन्तीति भावास्त एव, यद्वा भवन्ति तै: तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन . रूपेणेति भावा यथोक्ता एव, तेषामानुपूर्वी-परिपाटिर्भावानुपूर्वी औदयिकादीनां तु स्वरूपं पुरस्तान्त्र्यक्षेण वक्ष्यते, अत्रच नारकादिगतिरौदयिको भाव इति वक्ष्यते, तस्यां च सत्यां शेषभावाः सर्वेऽपि यथासम्भवं प्रादुर्भवन्तीति शेषभावाधारत्वेन प्रधानत्वादौदयिकस्य प्रथममुपन्यासः, ततश्च शेषभावपञ्चकस्य मध्ये औपशमिकस्य स्तोकविषयत्वात् स्तोकतया प्रतिपादयिष्यत इति तदन्तरमौपशमिकस्य, ततो बहुविषयत्वात् क्षायिकस्य, ततो बहुतरविषयत्वात् क्षायोपशमिकस्य, ततो बहुतमविषयत्वात् पारिणामिकस्य, ततोऽप्येषामेव भावानां द्विकासंयोगसमुत्थत्वात्, सान्निपातिकस्योपन्यास इति पूर्वानुपूर्वीक्रमसिद्धिरिति । शेषं पूर्वोक्तानुसारेण भावनीयम्। तदेवमुक्ताः प्रागुद्दिष्टा दशाप्यानुपूर्वीभेदाः, तद्भणने चोपक्रमप्रथमभेदलक्षणा आनुपूर्वी समाप्ता। साम्प्रतमुपक्रमस्यैव प्रागुद्दिष्टं द्वितीय भेदं व्याचिख्यासुराह मू.(१४६)से किंतं नामे?, नामे दसविहे पन्नते, तंजहा-एगनामे दुनामे तिनामे चउनामे पंचनामे छनामे सत्तनामे अट्ठनामे नवनामे दसनामे। वृ. इह जीवगतज्ञानादिपर्याजीवगतरूपादिपर्यायानुसारेण प्रतिवस्तु भेदेन नमतितदभिधायकत्वेन प्रवर्तत इति नाम, वस्त्वभिधानमित्यर्थः, उक्तं च "जं वत्थुणोऽभिहाणं पञ्जयभेयानुसारितं नामं । पइभेअंजं नमई पइभेअंजाइ जं भणिअं ।।" । इदं च दशप्रकारं, कथमित्याह- एगनामे' इत्यादि, इह येन केनचिन्नाम्ना एकेनापि सता सर्वेऽपि विवक्षितपदार्था अभिघातुं शक्यन्ते तदेकनामोच्यते, यकाभ्यां तु नामभ्यां द्वाभ्यामपि सर्वं विवक्षितं वस्तुजातमभिधानद्वारेण संगृह्यते तद् द्विनाम, यैस्तु त्रिभिर्नामभिः सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तत् त्रिनाम, यैस्तु चतुर्भिर्नामभिः सर्वं विवक्षितं वस्त्वभिधीयते तच्चतुर्नाम, एवमनया दिशा ज्ञेयं, यावद् यैर्दशभिर्नामभिः सर्वं विवक्षितं वस्तु प्रतिपाद्यते तद् दशनामेति। तत्र 'यथोद्देशं निर्देश' इत्येकनामोदाहरन्नाहमू.(१४७) से किं तं एगनामे?, २. मू. (१४८) नामानि जानि कानिवि दव्वाण गुणाण पज्जवाणंच तेसिं आगमनिहसे नामंति परूविआ सन्ना। 30/22 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy