________________
३३४
अनुयोगद्वार-चूलिकासूत्रं मू. (१३९) से किं तं उक्तित्तणानुपुव्वी ?, २ तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुवी । से किं तं पुव्वानुपुवी ?, २ उसभे अजिए संभवे अभिनंदने सुमती पउमप्पहे सुपासे चंदप्पहे सुविहि सीतले सेज्जंसे वासुपुज्जे विमले अनंते धम्मे संती कुंथू अरे मल्ली मुनिसुव्वए नमी अरिहनेमी पासे वद्रमाणे, से तं पुव्वानुपुवी । से किं तं पच्छानुपुवी ?, २ वद्धमाणे जाव उसभे, से तं पच्छानुपुवी । से किं तं अनानुपुव्वी?, २ एआए चेव एगाइआए एगुत्तरिआए चउवीसगच्छगया। गढीए अनमनभासो दुरूवूणो, सेतं अनानुपुव्वी। से तं उक्तित्तणानुपुवी। ___ वृ. उत्कीर्तनं-संशब्दनमभिधानोच्चारणं तस्यानुपूर्वी अनुपरिपाटि: सा पूर्वानुपूर्व्यादिभेदेन त्रिविधा, तत्र ऋषभः प्रथममुत्पन्नत्वात् पूर्वमुत्कीर्त्यते, तदनन्तरंक्रमेण अजितादय इति पूर्वानुपूर्वी, शेषभावना तु पूर्ववद्, अत्राह-ननु औपनिधिक्या द्रव्यानुपूर्व्या अस्याश्च को भेदः ?, उच्यते, तत्र द्रव्याणां विन्यासमात्रमेव पूर्वानुपूर्व्यादिभावेन चिन्तितम्, अत्र तु तेषामेव तथैवोत्कीर्तनं क्रियत इत्येतावन्मात्रेण भेद इति, भवत्वेवं, किन्त्वावश्यकस्य प्रस्तुतत्वादुत्कीर्तनमपि सामायिकाद्यध्ययनानामेव युक्तं, किमित्यप्रक्रान्तानां ऋषभादीनां तद्विहितमिति ?, सत्यं, किन्तु सर्वव्यापकं प्रस्तुतशास्त्रमित्यादावेवोक्तं, तद्दर्शनार्थमृषभादिसूत्रान्तरोपादानं, भगवतां च तीर्थप्रणेतृत्वात् तत्स्मरणस्य समस्तश्रेयः फलकल्पपादपत्वाद् युक्तं तन्नामोत्कीर्तनं, तद्विपयत्वेन चोक्तमुपलक्षणत्वादन्यत्रापि दृष्टव्यमिति, शेष भावितार्थ यावत्, ‘सेत'मित्यादि निगमनम् । इदानीं पूर्वोदृिष्टामेव गणनानुपूर्वीमाह- .
मू.(१४०)से किंतंगणनानुपुवी?, २तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुन्वी अनानपुव्वी। से किंतं पुव्वानपव्वी, २ एगो दस सयं सहस्सं दस सहस्साइंसयसहस्संदस सयसहस्साई कोडी दस कोडीओ कोडीसयं दस कोडिसयाई, से तं पुव्वानुपुवी। से किं तं पच्छानुपुवी?, २ दस कोडिसयाइं जाव एक्को, से तं पच्छानुपुव्वी। से किंतं अनानुपुव्वी?, २ एआए चेव एगाइआए एगुत्तरिआए दसकोडिसयगच्छगयाए सेढीए अन्नमनब्भासो दुरूवूणो, से तं अनानुपुवी। से तं गणनानुपुव्वी।
वृ.गणनं-परिसंख्यानं एकं द्वे त्रीणि चत्वारिइत्यादि तस्य आनुपूर्वी-परिपाटिर्गणनानुपूर्वी, अत्रोपलक्षणमात्रमुदाहर्तुमाह-'एगे'त्यादि सुगमम्, उपलक्षणमात्रं चेदमतोऽन्येऽपि सम्भविनः संख्याप्रकारा अत्र दृष्टव्याः, उत्कीर्तनानुपूर्त्यां नाममात्रोत्कीर्तनमेव कृतम् अत्र त्वेकादिसंख्याभिधानमिति भेदः । सेत'मित्यादि निगमनम्।। अथ प्रागुद्दिष्टामेव संस्थानानुपूर्वीमाह
मू.(१४१) से किं तं संठाणानुपुव्वी?, २ तिविहा पनत्ता, तंजहा-पुव्वानुपुव्वी पच्छाणुपुव्वी अनानुपुव्वी । से किं तं पुव्वानुपुव्वी?, २ समचउरंसे निग्गोहमंडले सादी खुज्जे वामने हुंडे, से तं पुव्वानुपुव्वी । से किं तं पच्छानुपुव्वी ?, २ हुंडे जाव समचउरंसे, से तं पच्छानुपुव्वी । से किं तं अनानुपुव्वी ?, २ एआए चेव एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अनमत्रभासो दुरूवूणो, से तं अनानुपुव्वी । से तं संगणानुपुव्वी ।
वृ.आकृतिविशेषाः संस्थानानि तानि च जीवाजीवसम्बन्धित्वेन द्विधा भवन्ति, तत्रेह जीवसम्बन्धीनि तत्रापि पञ्चेन्द्रियसम्बन्धीनी वक्तुमिष्टानि, अतस्तान्याह-'समचउरंसे'त्यादि, तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org