SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३३१ मूलं-१३५ जाव से तं अनुगमे। से तं नेगमववहाराणं अनोवनिहिआ कालानुपुव्वी। वृ.'एगंदव्वं पडुच्च जहन्नेणं एक्कं समय'ति अत्र भावना-इह त्र्यादिसमयस्थितिकं विवक्षित किञ्चिदेकमानुपूर्वीद्रव्यं तं परिणामं परित्यज्य यदा परिणामान्तरेण समयमेकं स्थित्वा पुनस्तेनैव परिणामेन व्यादिसमयस्थितिकं जायते तदा जघन्यतथा समयोऽन्तरे लभ्यते, 'उक्कोसेणं दो समय'त्ति, तदेव यदा परिणामान्तरेण द्वौ समयौ स्थित्वा पुनस्तमेव त्र्यादिसमयस्थितियुक्तं प्राक्तनं परिणाममासादयति तदा द्वौ समयावुत्कृष्टोऽन्तरे भवतः, यदि पुनः परिणामान्तरेण क्षेत्रादिभेदतः समयद्वयात्परतोऽपि तिष्ठेत्तदा तत्राप्यानुपूर्वीत्वमनुभवेत, ततोऽन्तरमेव न स्यादिति भावः। ___ नानाद्रव्याणां तं नास्त्यन्तरं, सर्वदा लोकस्य तदशून्यत्वादिति। अनानुपूर्वीचिन्तायां 'एगं दव्वं पडुच्च जहन्नेणं दो समय'त्ति, एकसमयस्थितिकं द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिकं परिणाममासादयति तदा समयद्वयं जघन्योऽन्तरकालः, यदि तु परिणामान्तरेणाप्येकमेव समयं तिष्ठत् तदा अन्तरमेव न स्यात्, तत्राप्यनानुपूर्वीत्वाद्, अथसमयद्वयात् परतस्तिष्ठेत्तदा जघन्यत्वं न स्यादिति भावः। ___ 'उक्कोसेणं असंखेनं कालं'त्ति, तदेव यदा परिणामान्तरेणासंख्येयकालमनुभूय पुनरेकसमयस्थितिकं परिणाममनभवति तदोत्कृष्टतोऽसंख्येयोऽन्तरकालः प्राप्यते । आह-नन यदि च अन्यान्यद्रव्यक्षेत्रसम्बन्धे तस्यानन्तोऽपिं कालोऽन्तरे लभ्यते किमित्यसंख्येय एवोक्त:?, सत्यं, किन्तं कालानुपूर्वीप्रक्रमात्, कालस्यैवेह प्राधान्यं कर्तव्यं, यदि त्वन्यान्यद्रव्यक्षेत्रसम्बन्धोऽन्तरकालबाहुल्यं क्रियते तदा तद् द्वारेणैवान्तरकालस्य बहुत्वकरणात्तयोयोरेव प्राधान्यमाश्रितं स्यान कालस्य, तस्मादेकस्मिन्नेव परिणामान्तरे यावान् कश्चिदुत्कृष्टः कालो लभ्यते स एवान्तरेचिन्त्यते,सचासंख्येय एव, ततः परमेकेन परिणामेन वस्तुनोऽवस्थानस्यैव निषिद्धत्वादित्येवं भगवतः सूत्रस्य विवक्षावैचित्र्यात् सर्वं पूर्वमुत्तरत्र चागमाविरोधेन भावनीयमिति। नानाद्रव्याणं तु नास्त्यन्तरं प्रतिप्रदेशं लोके सर्वदा तल्लाभादिति। अवक्तव्यकद्रव्यचिन्तायां जहण्णेणं एगं समय'ति द्विसमयस्थितिकं किञ्चिदवक्तव्यकद्रव्यं परिणामान्तरेण समयमेकं स्थित्वा यदा पूर्वानुभूतमेव द्विसमयस्थितिकपरिणाममासादयति तदा समयो जघन्यान्तरकालः। 'उक्कोसेणं असंखेनं कालं'ति, तदेव यदा परिणामान्तरेणासंख्येयं कालं स्थित्वा पुनस्तमेव पूर्वानुभूतं परिणाममासादयति तदाऽसंख्यात उत्कृष्टोऽन्तरकालो भवति, आक्षेपपरिहारावत्राप्यनानपूर्वीवत् दृष्टव्याविति । नानाद्रव्यान्तरं तु नास्ति, सर्वदा लोके तदभावादिति । उक्तमन्तरद्वार, भागद्वारेतु यथा द्रव्यक्षेत्रानुपूर्दोस्तथैवानुपूर्वीद्रव्याणिशेषद्रव्येभ्योऽसङ्ख्येयैर्भागैरधिकानि व्याख्येयानि, शेषद्रव्याणि त्वानुपूर्वीद्रव्याणामसङ्घयेयभाग एव वर्तन्त इति, भावना त्वित्थं कर्तव्या-इहानानुपूक्मेकसमयस्थितिलक्षणमेकमेव स्थानं लभ्यते, अवक्तव्यकेष्वपि द्विसमयस्थितिलक्षणमेकमेव तल्लभ्यते, आनुपूर्त्यां तु त्रिसमयचतुःसमयपञ्चसमयस्थित्वादीन्येकोत्तरवृद्धयाऽसङ्खयेयसमयस्थित्यन्तान्यसङ्ख्येयानि स्थानानि लभ्यन्त इत्यानुपूर्वीद्रव्याणामसङ्ख्येयगुणत्वम्, इतरयोस्तु तदसंख्येयभागवर्तित्वमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy