________________
मूलं-११६
३१७ - मू.(११६ वर्तते) नेगमववहाराणं आनुपुव्वीदव्वाइं लोगस्स किं संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा जाव सव्वलोए होज्जा?, एगंदव्वं पडुच्च लोगस्स संखिज्जइभागे वा होज्जा असंखिज्जइभागे वा होज्जा संखेज्जेसु० असंखेज्जेसु भागेसु वा होज्जा, देसूने वा लोए होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा।
नेगमववहाराणं अनानुपुव्वीदव्वाणं पुच्छाए एगदव्वं पडुच्च नो संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा नो संखेज्जेसु० नो असंखेज्जेसु० नो सव्वलोए होज्जा, नानादव्वाई पडुच्च नियमा सव्वलोए होज्जा, एवं अवत्तदव्वगदव्वाणिवि भाणिअव्वाणि।
वृ. इह स्कन्धद्रव्याणां विचित्ररूपत्वात्, कश्चित् स्कन्धो लोकस्य संख्येयं भागमवगाह्य तिष्ठति, अन्यस्त्वसंख्येयम्, अन्यस्तं संख्येयाँस्तद्भागानवगाह्य वर्तते, अन्यस्त्वसंख्येयेयानित्यतस्तत्तस्कन्धद्रव्यापेक्षया संख्येयादिभागवर्तित्वं भावनीयं, विशिष्टक्षेत्रावगाहोपलक्षितानां स्कन्धद्रव्याणामेव क्षेत्रानपूर्वीत्वेनोक्तत्वादिति भावः। .
'देसूने वा लोए होञ्ज'त्ति, देशोने वा लोके आनुपूर्वीद्रव्यं भवेदिति, अत्राऽऽह-नन्वचित्तमहास्कन्धस्य सर्वलोकव्यापकत्वं पूर्वमुक्तं, तस्य च समस्तलोकवर्त्यसंख्येयप्रदेशलक्षणायां क्षेत्रानुपूर्व्यामवगाढत्वात् परिपूर्णस्यापि क्षेत्रानुपूर्वीत्वं न किञ्चिद् विरुध्यते, अतस्तदपेक्षं क्षेत्रतोऽप्यानुपूर्वीद्रव्यं सर्वलोकव्यापि प्राप्यते, किमिति देशोनलोकेव्यापिता प्रोच्यते?, सत्यं, किन्तु लोकोऽयमानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यैः सर्वदैवाशून्य एवैष्टव्य इति समयस्थितिः, यदि चात्रानुपूर्व्याः सर्वलोकव्यापिता निर्दिश्येत तदाऽनानुपूर्व्यवक्तकद्रव्याणां निरवकाशतयाऽभावः प्रतीयते (येत), ततोऽचित्तमहास्कन्धपूरितेऽपि लोके जघन्यतोऽप्येक: प्रदेशोऽनानुपूर्वी विषयत्वेन प्रदेशद्वयं चावक्तव्यकविषयत्वेन विवक्ष्यते, आनुपूर्वीद्रव्यस्य तत्र सत्त्वेऽप्यप्राधान्यविवक्षणादनानुपूर्व्यवक्तव्यकयोस्तु प्राधान्यविवक्षणादिति भावः, ततोऽनेन प्रदेशत्रयलक्षणेन देशेन हीनोऽत्र लोकः प्रतिपादित इत्यदोषः, उक्तं च पूर्वमुनिभिः--
"महखंधापुण्णेऽविय अवत्तव्वगऽनानुपुव्विदव्वाई।
. जद्देसोगाढाइं तद्देसेणं स लोगूनो।" ननु यद्येवं तर्हि द्रव्यानुपूर्व्यामपि सर्वलोकव्यापित्वमानुपूर्वीद्रव्यस्य यदुक्तं तदसङ्गतं प्राप्नोति, अनानुपूर्व्यवक्तव्यकद्रव्याणामनवकाशत्वेन तत्राप्यभावप्रतीतिप्रसङ्गात्, सर्वकालं च तेषामप्यवस्थितिप्रतिपादनात्, नैतदेवं, यतो द्रव्यानुपूर्व्या द्रव्याणामेवानुपूर्व्यादिभाव उक्तो, न क्षेत्रस्य, तस्य तत्रानधिकृतत्वाद्, द्रव्याणां चानुपूर्व्यादीनां परस्परभिन्नानामप्येकत्रापि क्षेत्रेऽवस्थानं न किञ्चिद्विरुध्यते, एकापवरकान्तर्गतानेकप्रदीपप्रभाऽवस्थानदृष्टान्तादिसिद्धत्वात्, अतो न तत्र कस्याप्यनवकाशः, अत्र तु द्रव्याणामौपचारिक एवानुपूर्व्यादिभावो मुख्यस्तु क्षेत्रस्यैव क्षेत्रानुपूर्व्यधिकारात्, ततो यदि लोकप्रदेशा: सामस्त्येनैवानुपूर्व्या क्रोडीकृताः स्युस्तदा किमन्यदनानुपूर्व्यवक्तकतया प्रतिपद्येत?, यस्त्विहैय येष्वाकाशप्रदेशेष्वानुपूर्व्यस्तेष्वेवेतरयोरपि सद्भावः कथयिष्यते स द्रव्यावगाहभेदेन क्षेत्रभेदस्य विवक्षणाद्, अत्र तु तदविवक्षणा-- दिति, तस्मादनानुपूर्व्यवक्तव्यकविषयप्रदेशत्रयलक्षणेन देशेन लोकस्योनता विवक्षितेति, अथवा आनुपूर्वीद्रव्यस्य स्वावयवरूपा देशाः कल्प्यन्ते, यथा पुरुषस्यांगुल्यादयः, ततश्चः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org