________________
२७६
अनुयोगद्वार-चूलिकासूत्रं शेषोऽत्राऽऽक्षेपपरिहारदिप्रपञ्चो नयविचारणा च द्रव्यावश्यकवत् दृष्टव्या, अत एव सूत्रेऽप्यतिदेशं कृर्वता ‘जाव कम्हा?, जइ जाणए' इत्यादिना पर्यन्तनिर्दिष्टानां शब्दनयानां सम्वन्धी सूत्रालापको गृहीतः। एतच्च काञ्चिदेव वचनामाश्रित्य व्याख्यायते, वाचनान्तराणि तु हीनाधिकान्यपि दृश्यन्ते, ‘से त'मित्यादि निगमनम्। .
उक्तमागमतो द्रव्य श्रुतम्, इदानीं नोआगमतस्तदेवोच्यते
मू.(३८) से किंतं नोआगमतो दुव्वसुअं?, २ तिविहं पन्नत्तं, तंजहा-जाणयसरीरदव्वसुॐ भविअसरीरदव्वसुअंजाणयसरीरभविअसीरवइरित्तं दव्वसुअंग
वृ.अत्र निर्वचनम्-'नोआगमओ दव्वसुअंतिविह'मित्यादि, 'जाणयसरीर० भविअसरीर० जाणयसरीरभविअसरीरवइरित्तं दव्वसुअं' । अत्राऽऽद्यभेदज्ञापनार्थमाह
मू.(३९) से किंतं जाणयसरीरदव्वसुअं?, २ सुअत्तिपयत्थाहिगारजाणयस्स जं सरीरय ववगयचुअचाविअचत्तदेहंतं चेव पुव्वभणिअंभाणिअव्वं जाव से तं जाणयसरीरदव्वसुअं।
७. अत्रोत्तरम्-'जाणयसरीरदव्वसुअंसुअत्ती'त्यादि, ज्ञातवानिति ज्ञस्तस्य शरीरं तदेवानुभूतभावत्वाद् द्रव्य श्रुतं ज्ञशरीरद्रव्य श्रुतं, श्रुतमिति यत्पदं तदर्थाधिकारज्ञायकस्य यच्छरीरकं व्यपगतादिविशेषणविशिष्टं तज्ज्ञशरीरद्रव्यश्रुतमित्यर्थः । ननु यदि जीवविप्रमुक्तमिदं कथं तमुस्य द्रव्यश्रुतत्वं?, लेष्ट्वादीनामपि तत्प्रसङ्गात्, तत्पुद्गलानामपि कदाचित् श्रुतकर्तृ(वेतृ)भिः गृहीत्वा मुक्तत्वसम्भवादित्याशङ्कयाऽऽह-'सेञ्जागय'मित्यादि, शेषोऽत्रावयंवव्याख्यादिप्रपञ्चो ज्ञशरीरद्रव्यावश्यकवत् श्रुताभिलापतो वाच्यः, यावत् 'सेत'मित्यादिनिगमनम्। द्वितीयभेदनिरूपणार्थयाह__ मू. (४०) से किं तं भविअसरीरदव्वसुअं?, २ जे जीवे जोणीजम्मणनिक्खंते जहा दव्वावस्सए तहा भणिअव्वं जाव से तं भविअसरीरदव्वसु।
वृ.अत्र प्रतिवचः- भविअसरीरदव्वसुअंजे जीवे'इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायार्हः तद्योग्य इत्यर्थः, तस्य शरीरंतदेव भाविभावश्रुतकारणत्वात् द्रव्यश्रुतं भव्यशरीरद्रव्यश्रुतं, किं पुनस्तदिति, अत्रोच्यते, यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणादत्तेन जिनोपदिष्टेन भावेन श्रुतमित्येतत् पदमागामिकाले शिक्षिष्यते न तावच्छिक्षते तञ्जीवाधिष्ठतं शरीरं भव्यशरीरद्रव्यश्रुतमित्यर्थः, शेषं द्रव्यावश्यकवत् श्रुताभिलापेन सर्व वाच्यं, यावत् ‘से त'मित्यादि निगमनम् । तृतीयभेदपरिज्ञानार्थमाह
मू.(४१) से किं तं जाणयसरीरभविअसरीरवइरितं दव्वसुअं?, २ पत्तयपोत्थलिहिअं, अहवा जाणयसरीरभविअसरीरवइरित्तं दव्वसुअंपंचविहं पन्नत्तं, तंजहा-अंडयं बोंडयं कीडयं वालयं वागयं, अंडयं हंसगब्भादि, बोडयं कप्पासमाइ, कीडयं पंचविहं पन्नत्तं, तंजहा- पट्टे मलए अंसुए चीणंसुए किमिरागे, वालयं पंचविहं पन्नत्तं, तंजहा-उन्निए उट्ठिए मिअलोमिए कोतवे किट्ठिसे, वागयंसणमाइ, सेतं जाणयसरीरभविअसरीखइरितं दव्वसुअं, सेतंनोआगमतो दव्वसुअं, से तं दव्वसु।
वृ.अत्र निर्वचनम्-'जाणयसरीरभविअसरीरवइरित्तंदव्वसुअ'मित्यादि, यत्र ज्ञशरीरभव्यशरीरयोः, सम्बन्धि अनन्तरोक्तस्वरूपं न घटते तत् ताभ्यां व्यतिरिक्तं-भिन्नं द्रव्यश्रुतं, किं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org